________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः । विष्वक्सेना तु फलिनी विश्राणनं विहायिते । संप्रेषणे परित्यागे विहननं तु पिञ्जने ॥ १५६४ वधेऽथ विश्वकर्मा मुनिभिदेवशिल्पिनोः । विघ्नकारी विघातस्य कारके घोरदर्शने ॥ १५६५ विलेपनी स्याद्यवाग्वां चारवेषत्रियामपि । वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः॥ १५६६ वृक्षादनी तु बन्दायां विदार्यां गन्धकौषधे । वृषपर्वा तु शृङ्गारहरदैत्यकशेरुषु॥ १५६७ विरोधनो रैविसुते सुगते बलिदानवे । श्वेतधामा घनसारे कलानाथाब्धिफेनयोः॥ १५६८ श्लेष्मघना तु केतक्यां मयामथ समापनम् । परिच्छेदे समाधाने समाप्तिवधयोरपि ॥ १५६९ संमूर्छनमभिव्याप्तौ मोहे सनातनोऽच्युते । पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे ॥ १५७० सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे।। संयमनं व्रते बन्धे संयमनी यमस्य पूः ॥ १५७१ समादानं समीचीनग्रहणे नित्यकर्मणि । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ १५७२ संवदनं तु संवादे समालोचे वशीकृतौ । समुत्थानं निदानेऽभियोगे संवाहनं पुनः ॥ १५७३ वाहनेऽङ्गमर्दने च संप्रयोगी तु कामुके । कलाकेलौ सुप्रयोगे सरोजिनी सरोरुहे ॥ १५७४ सरोरुहिण्यां कासारे स्तनयित्नुः पयोमुचि । मृत्यौ स्तनिते रोगे च सारसनमुरश्छदे ॥ १५७५ काभ्यां च सामयोनिस्तु समोत्थे द्रुहिणे गजे। सामिधेनी समीदचोः सुयामनो जनार्दने॥१५७६ वत्सराजे प्रसादेऽद्रिभेदे चाथ सुदर्शनः । विष्णोश्चक्रे सुदर्शन्यमरावत्यां सुदर्शना॥ १५७७ अज्ञायामौषधीभेदे मेरुजम्ब्वां सेरीभिदि । सौदामिनी तडिद्भेदतडितोरप्सरोभिदि ॥ १५७८ हर्षयित्नुः सुते स्वर्णेऽवलेपो गर्वलेपयोः । दूषणेऽप्यपलापस्तु प्रेमापह्नवयोरपि ॥ १५७९ उपतापो गदे तापे, जलकूप्यन्धुगर्भके । सरस्यां जीवपुष्पं तु दमनके फणिज्जके ॥ १५८० नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे । परिवापो जलस्थाने पर्युप्तिपरिवारयोः ॥ १५८१ पिण्डपुष्पं जपायां स्यादशोके सरसीरहे । बहुरूपः स्मरे विष्णौ सरटे धूणके शिवे ॥ .१५८२ मेघपुष्पं तु नौदेये पिण्डाभ्रे सलिलेऽपि च । विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि ॥ १५८३ वृकधूपो वृक्षधूपे सिल्हकेऽथ वृषाकपिः । वासुदेवे शिवेऽग्नौ च.हेमपुष्पं तु चम्पके ।। १५८४ अशोकद्रौ जपापुष्पे राजजम्बूस्तु जम्बुभित् । पिण्डखर्जूरवृक्षश्वाप्यवष्टम्भस्तु काश्चने ॥ १५८५ संरम्भारम्भयोः स्तम्भे शातकुम्भोऽश्वमारके। शातकुम्भं तु कनकेऽभ्यागमः समरेऽन्तिके॥१५८६ घाते रोधेऽभ्युपगमेऽनुपमस्तु मनोरमे । अनुपमा सुप्रतकिस्त्रियामुपगमः पुनः॥ १५८७ अङ्गीकारेऽन्तिकगताव॑पक्रमस्तु विक्रमे । उपधायां तदाद्याचिख्यासाचिकित्सयोरपि ॥ १५८८ आरम्भेऽथ जलगुल्मो जलावर्तेऽम्बुचवरे । कमठे। दण्डयामस्तु दिवसे कुम्भजे यमेन। १५८९ प्रवङ्गमः कपो भेके, पराक्रमस्तु विक्रमे । सामर्थ्य चाभियोगे च महापद्मः पुनर्निधौ ॥ १५९०
१. 'वेक्ष' ग-घ. २. 'विदारीगन्धयोरपि' ख. ३. 'रविविष्णुसुते च' ग-घ. ४. 'समासीन' ग-घ. ५. 'स. मुत्थीयतेऽस्मिन्निति समुत्थानम्' इति टीका. 'समुत्थाने' ग-घ. ६. 'मृतौ स्तमिते' ग-घ. ७. 'द्रुहिणो ग' ग-घ. ८. 'सुखेन दृश्यते सुदर्शनः 'शासूसुधीत्यनः' पुंसि 'वाचष्पति'स्तु 'चक्रं सुदर्शनोऽस्त्रियामित्याह'-यथातस्य नेष्यति वपुः कबन्धुसां बन्धुरेष जगतां सुदर्शनः' इत्यनेकार्थकैरवाकरकौमुदी. 'सुदर्शनम्' ख-ग-घ. ९. 'सुरा' ग-घ. १०. इत ऊर्ध्वम् 'परिकम्पो भये कम्पे प्राप्तरूपोऽज्ञरम्ययोः' इत्यधिकः पाठः ख-पुस्तके. ११. 'नादे स्यात् पि' ग-घ. १२. 'विरोधोक्ता' ग-घ. १३. 'संरम्भारङ्गयोः' ग-घ. १४. 'भवेदयम्' ग-घ. १५. 'उपमारहितेऽनुपमेभ्यामुप' ग-घ. १६. 'उपगमस्तु' ख. १७. 'प्रवेण गच्छति प्रवङ्गमः' इति टीका. 'प्लवङ्गमः' ख-ग-घ.
For Private and Personal Use Only