________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीकरणेऽप्यथोषणा । कणोषणं तु मरिचे करुणो रसवृक्षयो।॥७९० करुणा तु कृपायां: स्यात्करणं क्षेत्रगात्रयोः । गीताङ्गहारसंवेशभित्सु कायस्थसंहतौ ॥ ७९१ वर्णानां स्पष्टतादौ च योगिनामासनादिषु । हृषीके साधकतमे ववादौ च कृतावपि ॥ ७९२ करणः शूद्राविटपुत्रे कङ्कणं करभूषणे । मण्डने हस्तसूत्रे च कल्याणं हेम्नि मङ्गले ॥ ७९३ कत्तृणं रौहिषं फङ्गा करेणुस्तु मतङ्गजे । द्विरदस्य च योषायां कर्णिकारतरावपि । ७९४ कारणं घातने हेतौ करणे कारणा पुनः । यातना कार्मणं मन्त्रादियोगे कर्मकारके॥ ७९५ काकणी मानदण्डस्य तुरीयांशे पणस्य च । कृष्णलायां वराटे।च कृपाणी कर्तरी छुरी॥ ७९६ कृपाणोऽसौ क्षेपणी तु नौदण्डजालभेदयोः।। कोकणः स्याज्जनपदो कोङ्कणं त्वायुधान्तरे ॥ ७९७ ग्रहणं स्वीकृतौ वन्द्यां धीगुणे शब्द आदरे । ग्रहोपरागे प्रत्यायो ग्रामणीः क्षुरमर्दिनि ॥ ७९८ प्रधाने भौगिके पत्यौ ग्रामिणी पण्ययोषिति । ग्रामेय्यां नीलिकायां चा गोकर्णः प्रमथान्तरे ॥७९९ अङ्गुष्ठा नामिकोन्माने मृगेऽश्वतरसर्पयोः।। गोकर्णी तु मूर्विकायां चरणो मूलगोत्रयोः ॥ ८०० बढचादौ च पादे चाचरणं भ्रमणेऽदने । जरणो रुचके हिङ्गौ जीरके कृष्णजीरके॥ ८०१ तरुणः कुजपुष्पे स्यादेरण्डे यूनि नूतने। तरणिस्तरणेऽऽसौ कुमार्योषधिनौकयोः ॥ ८०२ यष्टावब्धौ दक्षिणस्तु परच्छन्दानुवर्तिनि । दक्षेऽपसव्ये सरलेऽपाचीनेऽप्यर्थ दक्षिणा ॥ ८०३ दिक्प्रतिष्ठा यज्ञदानी हुँघणः पशुवेधसोः । मुद्गरेऽप्यथा दुर्वर्ण कलधौतकुवर्णयोः॥ ८०४ दौर्वीणं मृष्टपणे स्याद्धरितालीरसेऽपि च । धरणोऽहिपती लोके स्तने धान्ये दिवाकरे॥ ८०५ धरणं धारणे मानविशेषेधरणी भुविः। धर्षणं रतेऽभिभके धर्षणी त्वभिसारिका॥ ८०६ धिषणस्त्रिदशाचार्यो धिषणा तु मनीषिका निर्याणं निर्गमे मोक्षगजापाङ्गप्रदेशयोः ॥ ८०७ निर्वाणं मोक्षनिर्वृत्योविध्याते करिमज्जने । निर्माणं सारनिर्मित्योः कर्मभेदे समअसे ॥ ८०८ निःश्रेणिरधिरोहिण्यां खरीपादपेऽपि च । प्रघणोऽलिन्दके ताम्रकलशे लोहमुद्रे'॥ ८०९ प्रवणस्तु क्षणे प्रह्वे क्रमनिम्ने चतुष्पथे । औयत्ते च प्रमाणं तु मर्यादासत्यवादिनोः ॥ ८१० प्रमातर्येकतेयत्तानित्येषु हेतुशास्त्रयोः।। पत्तोर्ण धौतकौशेये स्यात्पत्तोर्णस्तु शोणके ॥ ८११ पक्षिणी पूर्णिमाखग्योः शाकिनीरात्रिभेदयोः । प्रवेणिवेणिकुथयोः। पुराणं प्रत्नशास्त्रयो। ॥ ८१२
ताङ्गहारसंवेशभिक्षुकायस्थसंहतौ । वर्णानां स्पष्टतादौ च योगिनामासनादिषु । हृषीके साधकतमे ववादौ च कृतावपि । करुणा तु कृपायां स्यात्करुणो रसवृक्षयोः । करेणुर्गजहस्तिन्योः कर्णिकारतरावपि । कारणं' ख.
१. "कक्यते काकणिः । 'ककेणित्' इत्यणिः" इति टीका. 'काकिणी' ख-ग-घ. २. 'मानदण्डे स्यात्' ख. ३. 'हस्त' ग-ध. ४. 'ग्रहणी तु रुगन्तरे । ग्रामणी गिके पत्यौ प्रधाने क्षुरमर्दिनि । ग्रामणीः पण्ययोषा स्यादामेयी नीलिकापि च । गोकर्णोऽश्वतरे सपै मृगभेदे गणान्तरे । अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ । चरणो बड्डचादौ स्यात्पादे च मूलगोत्रयोः । चरणं भ्रमणे अक्षे रासभस्य ध्वनावपि । जरणो' ख. ५. 'ग्राम: पेटकं संवसथो वास्त्यस्या ग्रामिणी' इति टीका. 'ग्रामणीः' ख-ग-घ, ६. 'ग्रामेयायां' ग-घ. ७. 'द्रविणं काञ्चने धने । पराक्रमे बलेऽपि स्यादृषणः' ख. ८. 'पशु' ग-घ. ९. 'पृष्ट' ख. १०. 'द्रिपतौ' ग-घ. ११. 'धरुणः सलिले स्वर्गे परमेष्ठिनि धर्मणः । सर्पभेदे वृक्षभेदे धर्षणी त्वभिसारिका । धर्षणं स्यात्परिभवे धारणी नाटिकाभिदि । धारणा स्यात्तु योगाङ्गे धारणं ग्रहणे मतम् । धिषण' ख, 'धरणं' ग-घ. १२. 'विधाते' ख. 'विश्रान्ते' ग-ध. १३. 'आवर्ते ग-ध. १४. 'पत्तोर्णः शोणकद्रुमे' ख.
For Private and Personal Use Only