________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
२७
७२१
ू
७३०
1
७३१
जिह्मगो मन्द सर्पेतुरगो वाजिचित्तयोः । तुरगी त्वश्वगन्धायां धाराङ्गस्तीर्थखङ्गयोः। ।। ७२० नैरङ्गं शफे वरण्डे, नारङ्गं विटजन्मिनोः । कणारसे नागरङ्गे निषङ्गस्तूणसङ्गयो ॥ 1 निसर्गः सृष्टौ स्वभावे प्लॅवगः कपिभेकयोः | अर्क सूते पन्नगस्तु पद्मकाष्ठे भुजङ्गमे । ॥ परागश्चन्दने रेणौ गिरौ ख्यात्युपरागयोः । स्नानीयपुष्परजसोः पतङ्गः सूर्यपक्षिणोः ॥ पारते शलभे शालौ पत्राङ्गं रक्तचन्दने । भूर्जपद्मकयोश्चापि प्रयागो वाजिशकयोः ॥ यज्ञे तीर्थविशेषे च प्रयोगस्तु निदर्शने । कार्मणे च प्रयुक्तौ च प्रियङ्ग राजसर्षपे ॥ I ७२५ पिप्पल्यां फलिनीकङ्ग्वोः पुन्नागः पादपान्तरे । जातीफले नरश्रेष्ठे भुजङ्गः सर्पषिङ्गयोः ॥ ७२६ मातङ्गः श्वपचो हस्ती, मृदङ्गो घोषवाद्ययोः । रक्ताङ्गो भौमे रक्ताङ्गं कम्पल्ये विद्रुमेऽपि च ७२७ रक्ताङ्गा जीवन्तिकायां रथाङ्गः कोकपक्षिणि । रथाङ्गं चक्रे वराङ्गं योनौ शीर्षे गुडत्वचि ७२८ कुञ्जरे च विडङ्गस्तु स्यादभिज्ञकृमिघ्नयोः । विसर्गो विसर्जनीये वर्चसि त्यागदानयोः ॥ ७२९ संभोगो भोगरतयोः शुण्डायां । सर्वगं जले। सर्वगस्तु विभौ रुद्रे सारङ्गी विहगान्तरे ॥ चातके चञ्चरीके च द्विपैणशबलेषु च । अमोघः सफले मोघा पुनः पथ्याविडङ्गयोः ॥ अनघः स्याद्वतपापे मनोज्ञे निर्मलेऽपि च । उल्लाघो निपुणे हृष्टे शुचिनीरोगयोरपि ॥ ७३२ काचिस्तु मूषके स्याच्छान्तकुम्भे छेमण्डके । परिघोऽत्रे योगभेदे परिघातेऽर्गलेऽपि च ॥ ७३३ पलिघः काचकलशे घटे प्राकार गोपुरे । प्रतिघौ रुट्प्रतीघातौ महार्घो लावकाण्डजे || ७३४ महामूल्येऽप्यवीचिस्त्वतरङ्गे नरकान्तरे । कवचस्तु तनुत्राणे पटहे नन्दिपादपे || क्रकचः करपत्रे स्याग्रन्थिलाख्यतरावपि । कणीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च ॥ ७३६ नमुचिर्दितिजे का नाराचो लोहसायके । जैलेभेो नाराच्येषण्यां' प्रपञ्चो विप्रलम्भने || ७३६ विस्तारे संचये चापि मरीचिः कृपणे घृणौ । ऋषिभेदे च मारीचः ककोले योजकद्विपे || ७३७ 1 रक्षोभेदेऽथाण्डजः स्यात्कंकिण्डेऽहौ खगे झपे | अण्डजा तु मृगनाभावङ्गजो मन्मथे सुते ७३८ मदेकेशेऽङ्गजं रक्त कम्बोजो नीवृदन्तरे । शङ्खहस्तिभेदयोश्च । करजो नखवृक्षयोः ॥ काम्बोजः पुनरश्वानां भेदे पुंनागपादपे । वलक्षखदिरे चापि काम्बोजी माषपर्णिका ॥ कारुजः कलमे फेने वल्मीके नागकेसरे । गैरिके शिल्पिनां चित्रे स्वयंजाततिलेऽपि च ० ॥ ७४१ 1 कुटजोऽस्ये भेदे द्रोणे गिरिजम के । शिलाजतुनि लोहे च गिरिजा मातुलुङ्गयुमा ॥ ७४२ जलजं कमले शङ्खे नीरजं पद्मकुष्ठयोः । परञ्जोऽसौ तैलयत्रे क्षुरिकाफलफेनयोः ॥ बाहुजस्तु स्वयंजाततिले क्षत्रियकीरयोः ।। भूमिजौ नरकाङ्गारौ । भूमिजा जनकात्मजा० ॥ बलजं गोपुरे सस्ये क्षेत्रसंगैरयोरपि । सदाकारे बलजा तु पृथिव्यां वरयोषिति ॥
७३५
1
७३९
७४०
७४३ ७४४
७४५
For Private and Personal Use Only
७२२
_७२३
७२४
१. ‘मदने' ग-घ. २. ‘नराङ्गः' ग घ ३. 'स' ग घ ४. 'नीलाङ्गुः कृमिजातिके । भम्भराल्यां प्रसूने च' इत्यधिकमितः प्राक् ख ग घ ५. 'पद्मकोष्ठे' ख ग घ ६. 'कर्मणि' ग घ ७. 'खिङ्गयोः ' ख. ८. 'दुष्टे' ग घ. ९. 'शेमण्डके' ग घ 'छमण्डकः प्रदेशविशेष:' इति टीका. १०. 'वीचिस्तु तरङ्गे' ख; 'वीचिस्तर' ग घ. ११. 'जलहस्ती' इति टीका. १२. 'याज्ञिकद्विजे' ख ' याजकस्य द्विपः' इति टीका. १३. 'प्यण्डजः' ख. १४. 'च्छरटे' ग-ध. 'कक्विण्ड: कृकलासः' इति टीका. १५. 'मृगनाभ्यां स्याद' ख; 'तु मृगीनाभ्यां' ग-घ. १६. 'सुन्दरे च कम्बोजो' ख. १७. 'संगमयोर' ख.
१. मेदिन्यामपि 'काचिघः काञ्चनेऽपि स्याच्छेमण्डे मूषकेऽपि च' इत्येकारप्रथम एव दृश्यते.