________________
7t.]
The Svetāmbara Narratives
स 'निवृत्ति कुलोद्भतो 'लाट 'देशविभूषणः । आचारपंचकोयुक्तः प्रसिद्धो जगतीतले ॥ २॥ अभूद् भूतहितो धीरस्ततो देल्लमहत्तरः। ज्योतिनिमित्तशास्त्रज्ञः प्रसिद्धादेशविस्तरः॥३॥ ततोऽभूदुल्लसत्कीर्ति' ब्रह्म 'गोत्रविभूषणः । दुर्गस्वामी महाभागः प्रख्यातः पृथिवीतले ॥ ४ ॥ प्रव्रज्यां गृह्नता येन गृहं सद्धनपूरितं । हित्वा सद्धर्ममाहात्म्यं क्रिययैव प्रकाशितं ॥ ५॥ यस्य तच्चरितं वीक्ष्य शशाककरनिर्मलं'। बुद्धास्तत्प्रत्ययादेव भूयांसो जंतवस्तदा ॥ ६ ॥ सहीक्षादायकं तस्य स्वस्य चाहं गुरूत्तमं । नमस्यामि महाभागं गर्गर्षिमुनिपुगवं ॥७॥ क्लिष्टेऽपि 'दुःषमा'काले यः पूर्वमुनिचर्यया। विजहारेह निःसंगो दुर्गस्वामी धरातले ॥ ८॥ सद्देशनांशुभिलोंके द्योतित्वा भास्करोपमः । श्री भिल्लमाले' यो धीरो गतोऽस्तं सद्विधानतः ॥ ९॥ तस्मादतुलोपशमः सिद्धर्षिरभूदनाविलमनस्कः । परहितनिरतकमतिः सिद्धांतनिधिर्महाभागः ।। १०॥ विषमभवगर्तनिपतितजंतुशतालंचदानदुलितः । दलिताखिलदोषकुलो(5)पि सततकरुणापरीतमनाः ॥११॥ यस्संग्रहकरणरतः सदुपग्रहनिरतबुद्धिरनवरतं । आत्मन्यतुलगुणगणैर्गणधरबुद्धि विधापयति ।। १२ ।। बहुषिधमपि यस्य मनो निरीक्ष्य कुंदेदुविशदमद्यतनाः। मन्यते विमल धियः सुसाधुगणवर्मकं सत्यं ।। १३ ।। उपमितिभवप्रपंचाकथेति तचरणरेणु कल्पेन ।
गीर्देवतया विहिता(5)भिहिता सिद्धाभिधानेन ॥ १४॥ अथवा।
आचार्यहरिभद्रो मे धम्मबोधकरो गुरुः।। प्रस्तावे भावतो हंत स एवाये निवेदितः ॥ १५ ॥ विषं विनिर्धय कुशासनामयं
व्यचीचरद यकृपया मदाशये । अचिंत्यवीर्येण सुवासनासुधां । नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १६॥
mmam
1 Verses 10-13 seem to be interpolated unless they refer to Sadda Rai instead of Siddha Rşi, the author.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org