________________
२८ केशवकृतः कल्पद्रुकोशः एवं द्वैमातुरेऽपि स्याद्व्याप्यस्तु' पितुरगजे । तत्कनिष्ठे तु कर्कः स्यात्तौ तु स्यातां पितृव्यकौ ॥७॥ मातुर्धाता मातुलः स्यान्मामको मातृकेशरः । सकष्टमातुलो मातुः सपल्यास्तु सहोदरे ॥७१॥ पितृष्वसुस्तुपर्यायः पैतृष्वस्त्रेय इत्यपि । मातृष्वसुः सुते मातृष्वस्रयो मातुलात्मजे ॥७२॥ मातुलेयोऽथ सापत्लो वैमात्रेयो विमातृजः। मातुः सपत्नीतनयेऽथासतीजे तु बन्धुलः ॥७३॥ अथ बान्धकिनेयः स्याद्भिक्षुकी त्वसती यदि । विद्धप्रजननः स स्याद्यः स्वयं चण्डिलो भवेत् ॥७॥ दासीसुते तु दासीरदासेयो कुलटात्मजे । कौलटेरः कौलटेयः कौलटिनेय इत्यपि ॥७॥ काणीपुत्रस्तु काणेयो नाटेयस्तु नटीसुते । द्वितीयस्य पितुर्योन्नं भुत्तवा परिणतो द्विजः ॥७॥ अवटेट' इति ख्यातो ज्येष्ठाजो ज्येष्ठिनेयकः । मुझकेशो गुडाकेश उभौ वर्वरकेशिनि ॥७७॥ खलतिः खल्लतिबंभुर्खल्लीर श्वेन्द्रलुप्तिकः। शिपिविष्टोपि खल्वाटः खल्लकश्चन्द्रिकान्वितः ॥७॥
. पिB २
३ ४ ५ ज्ये ५ गुडाकायानिद्रायाईश इति केचित् ल . स्वस्तु