________________
केशवकृतः कल्पद्रुकोशः २६ चण्डो' द्विनग्नोऽथ पुनश्चण्डिकोऽप्यथ संततिः । स्त्रियां सूनुः पुमान्पुत्र श्रात्मजस्तनयोऽपि च ॥७६ ॥
आत्मनीनः सुतोऽपि स्यादुद्वहो नन्दनोऽपि च । दायादः पिण्डदश्च स्यादङ्गभूर्यस्तु पञ्चमः ॥८॥ परंपरः पल्ययनः षष्ठस्त्वपि परंपरः।। पुत्रपौत्रान्पश्यति यः पुत्रपौत्रीण एष च ॥१॥ परंपरीणो यः षष्ठं पञ्चमं चापि पश्यति । परोवरीणोऽनुभवन्परानप्यवरानपि ॥ २ ॥ बीजीतु सप्तमः पूर्वं पुमान्या भिरथाप्यमी । पुत्रादयः स्त्रियामाहुर्दुहिताथ प्रजा स्त्रियाम् ॥ ८३ ॥ क्लीबे बीजं स्यादपत्यं तोकं तुगपि चास्त्रियाम् । त्रिष्वालध्वौरसौ रस्यौ धर्मपत्नीसमुद्भवे ॥८४ ॥ मृते जारोद्भवो गोलः कुण्डो जारोद्भवोऽमृते । दत्तको दत्रिमः पुत्रः पात्रिकेयोऽभिसंधितः॥ ८५ ॥ समानोदर्यसोदर्यसगर्यसहजाः समाः। सहोदरः सोदरोऽपि तस्मिञ्ज्येष्ठे तु पूर्वजः ॥८६॥ ज्यायानप्यग्रजोग्यः स्यादग्रीयोऽथ जघन्यजः । कनिष्ठश्च यविष्ठश्च कनीयाननुजो लघुः॥८७॥
चंगे २ रण्डस्तु चB ३ लोक:B १ तःKC ६ वाKD नाभिरा ८ प्रजाः । #BC . अनियोपि रा