________________
केशवकृतः कल्पनुकोशः
बन्धकी लाञ्छवी' खण्डशीला मदननालिका । धर्षणिर्वर्षणिश्वापि लाञ्छिका चर्षणीति च ॥३५॥
२
२४
चर्षणिर्वर्षी रण्डा पांशुलापि निगद्यते । दुःशृङ्गी पुंश्चली बंधुरा' स्वैरिण्यसतीत्यथ ॥३६॥ वारपण्यपणादीनामर्थेभ्यो योषिदर्थकाः । कञ्जिनी लञ्जिका वेश्या बन्दी' शूला च भर्भरा ॥ ३७॥ रूपाजीवा वारवाणिः कामलेखावगालिका | क्षुद्राजिना कालकूची कुट्टकी' सम्भली समे ॥३८॥ सनाली कुञ्चिका भोज्या चोटा कुहककारिका । चेटी दासी कुम्भदासी नागरैः सत्कृतातु या ॥३६॥ मलिष्ठा मलिना म्लाना ऋतुपुष्पार्थतावती । पर्यायाः पांशुलादक्यात्रेय्यविश्च रजस्वला ॥४०॥ स्त्रीपर्यायेभ्यो धर्मिणी स्यात्सैवोक्ता व्युषिताप्यथ । हीना पितृभ्यां छेमुण्डा रोषमूका खलुङ्गिका ॥४१॥
१२
वन्ध्या तु केशिनी शून्या मोघपुष्पा वृथार्त्तवा । भोडा" वृषत्करिः " सा स्याल्लोकाचारं न या चरेत् ॥ ४२ ॥ उच्चभाला मरुण्डा स्यात्वग्रजः पुष्पमार्त्तवम् । स्त्रीधर्मो ना रजोऽपि स्यादथ जाया कुटुम्बिनी ॥ ४३ ॥
१०
१ ली २ वKC ३ बन्धुदा बन्धूदा ४ पिB ५ बन्दि बढ़ी B ६ नीB KB KC & पूर्व KB १० खुKB ११ डा १२ टि; B