________________
२२ केशवकृतः कल्पद्रुकोशः
कन्या कुमारी कन्याका कन्यिका बालिका' च सा । स्थागौरी चाप्यथ पुनर्नग्निकाऽनागतार्त्तवा ॥१७॥ कुमारी पुंप्रसङ्गोत्थरजा गुप्तरजस्वला । राका नवफलार्था साप्यचिरोढा वधूर्नवा ॥१८॥ सार्वाक् प्रसूतितः श्यामा दिकरी नवयौवना । वयः संधिमती चाथ दृष्टपुष्पा तु धेनुका ॥१६॥ यहतुप्रथमस्नाने मङ्गल्यं ध्रियतेम्बरम् । स अानन्दपटस्तत्र मैथुनं नवरङ्गकम् ॥२०॥ अथ यूनी तु युवती तरुणी तलुनीति च । युवतियॊवनाढ्या च कलावत्यथ कामुकी ॥२१॥ वृषस्यन्ती कामुकाथ प्रज्ञा प्राज्ञी च धीमती । कात्यायन्यर्द्धवृद्धा स्याद्विश्वस्ताविधवे समे ॥२२॥ काषायवसना रण्डा विशस्ता मुण्डमण्डिता । वृद्धा पलिक्नी पलिता वशा वश्या च जर्जरा ॥२३॥ स्यात्सधीची वयस्यालिः सखी च सहचारिणी । सदाचारा कर्मकरा प्रेष्यान्तःपुरचारिणी ॥२४॥ सैरन्धी परवेश्मस्था स्वक्शा शिल्पकारिका। . सरस्वती च बलजा' रोचना हारिणीति च ॥२५॥
पि च २ धायया ३ कलवCK : ज ५ नोB
B