________________
केशवकृतः कल्पद्रुकोशः
नदीदेवार्थयोर्मातृकार्थकः स्यादनुक्रमात् । नदीवृष्ट्यम्बुजैः सस्यैर्युक्तो द्वैमातृकश्च सः ||१५|| ऊपरस्तूपवानृषो ह्रस्वादिरपि कीर्त्तितः । स्त्री शर्करा तु वा भूम्नि देशे शार्करिलस्त्रिषु ॥ १६ ॥ शार्करः शर्करावांश्च देशे चान्यत्र च त्रिषु । सिकता स्त्री बहुत्वे वा देशे सिकतिलखिषु ॥१७॥ सैकतः सिकतावांश्च देशे चान्यत्र च त्रिषु । स्त्रियां वा भूम्नि सिकता वालुका वालिकापि च ॥१८॥ पाण्डुभूमप्रभृतयश्चान्यलिङ्गाः स्थली न ना । सुराज्ञि देशे राजन्वान् कुराजनि तु राजवान् ॥१६॥ कुमुद्रदायास्त्रिष्वेत इतः पु'भूम्नि चैकवत् । वाह्रीको वाहिकापि च ॥२०॥
किस्तु चोलोडोथ यवनो जवन: पारसीककः ।
स च पारसिकोपि स्यात् वाना 'युस्तु वना" बुकः ॥ २१॥ दरस्त्रियां च दरदा कन्यकुब्जः कुशस्थलम् । कन्याकुब्जः कान्यकुब्जः कोशल: कोसलोपि च ॥२२॥ तीरभुक्तिस्तीरभुक्तो विदेहो मिथिलः समाः । चेदिश्चैद्यो हालस्तु डाहाला डाहलश्च सः ॥२३॥
६
४ बाB ५ बाB ६ यु KC ७ युच्च B ८ चेदि
१ मातुर B २६ B ३ B रिस्यादि पक्तिद्वयं पुस्तके नास्ति ।