________________
केशवकृतः कल्पद्रुकोशः ५ यत्र युक्तं द्वयोलक्ष्म गोधूमचणकावृतम् । यावनाला'माषयवैातं साधारणं त्रिषु ॥६॥ देशः प्रारदक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः । हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ॥७॥ प्रत्यगेव प्रयागाच मध्यदेशः स मध्यमः । प्रत्यन्तोनार्यदेशः स्यान्मध्यं विन्ध्यहिमागयोः ॥८॥ पूर्वपाश्चात्ययोरब्ध्योर्नदी यावच्छरावती। पार्यपर्यायतः स्थानमावर्त्तमपि वाच्यक्त् ॥६॥ स्त्रियामाचारवेदी स्यात्सर्वधर्मपुरस्कृतम् । गङ्गायमुनयोर्मध्यमन्तर्वेदिः शमस्थली ॥१०॥ ब्रह्मावर्तः सरस्वत्या दृषद्वत्याश्च मध्यभूः । ब्रह्मवेदिः कुरुक्षेत्रं पञ्चरामहदान्तरा ॥११॥ धर्मक्षेत्रं विशसनं कुरुजाङ्गलमित्यपि । पाण्डूदकृष्णतोभूमः पाण्डूदकृष्णभूमिके" ॥१२॥ कुमुद्वान्कुमुदप्रायो वेतस्वान्बहुवेतसः । नडकीयो नडप्रायः स्यान्नड्वान्नड्वलश्च सः ॥१३॥ शाद्वलः शादहरितः सजम्बालोतिपङ्किलः । अपि नद्यम्बुवृष्टम्बुसंपन्नव्रीहिपालितः ॥१४॥
१ लैौष २ ल ३ वर्तः श्रम. ४ परिष्कृB ५ समस्थली हे ६ दं तथा
७ भूम