________________
४८० केशवकृतः कल्पद्रुकोशः भवनस्यानुमानस्य लशुनस्य ततः पुनः । गृञ्जनस्यापि शयनद्वोपयोः कुतपस्य च ॥१६८॥ चापावायस्तूपसूर्यकुणपानां तिपस्य च । विटपोडुपशष्पाणां मण्डपद्वीपयोरपि ॥१६॥ वष्पविष्टपयोश्चापि तथैव शफबिम्बयोः । डिभजम्भकुसुम्भानां निभस्य कलभस्य च ॥१७॥ ककुभस्यार्मघस्रामसंक्रमाणां हिमस्य च । कामहेमललामानामुद्यामोद्यमयोरपि ॥१७१॥ संगमक्षामयो पतूर्ययोः समयस्य च। कम्बलिबाह्यमैरेयजन्यानां प्रचयस्य च ॥१७२॥ हिरण्यारण्यसख्यानां राजसूयकषाययोः । स्याद्वाजपेयमलयशल्यानां वलयस्य च ॥१७३॥ गोमयाव्ययकुल्यानां परिहार्यस्य चैव हि । कचियक्षत्रशिखरावराणां कूवरस्य च ॥१७४॥ पारावारातिखरयोस्तद्वद्वस्त्रोपवस्त्रयोः । कूटालिंजरवेराणां'मेढहिञ्जीरयोरपि ॥१७५॥ संसारतीरनीहारसूत्राणां तुवरस्य च । सहस्रवक्तनेत्राणां पत्रशृङ्गारयोस्तथा ॥१७६॥
, मेटेति मूलपाठः।