________________
केशवकृतः कल्पद्रुकोशः)
रयाद्गात्रापरनासीरमन्दिराणां ततः परम् । मयूरकादम्बरयोः शत्रस्य नगरस्य च ॥ १३२ ॥ सक्षीरस्य तमिस्रस्य स्थाली काहलयोरपि । कदलीयुगलीजालस्थलानां पित्तलस्य च ॥ १३३ ॥ गोलावडिशयोश्छर्दिजम्ब्वलावूष सामपि । गुणदामार्चिसदसां सरसां चोडुना सह ॥ १३४ ॥ तयडा मया तद्वदिति स्त्रीक्लीबयोरथ । पुंक्लीबयो' रब्जसंख्ये तद्वत्पद्मोऽब्ज संख्ययोः ॥ १३५ ॥ कंसेोऽपुंसि कुश ब बालोहीवेरकेशयोः । द्वापर : संशये छेदे पिप्पलो 'विटपोऽतरोः ॥ १३६ ॥ अब्दो वर्षे 'दरस्त्रासे कुकूलस्तु तुषानले । स्याज्जन्यस्तु परीवादे पर्यङ्के तल्पइत्यपि ॥१३७॥ उष्णे धर्मस्तपे माघे हृदि वत्सो वरो भवेत् । तुल्ये गोले च भच्ये च वर्णः शुक्लादिकेषु च ॥ १३८ ॥ "कारादौ संपरायो रणे लोणे तु सैन्धवः । भूतः प्रेते तमो राहो शुक्रः स्यादग्निमासयोः ॥ १३६ ॥ स्खदायकस्वरे कृच्छ्रं व्रते तु स्याच्छदे दलः । कर्पूरस्वर्णयोश्चन्द्रः स्यादृक्षश्चन्द्रयोषिति ॥१४०॥
A
४७६
१ रज्व CK २ विध्यनन्तरेB ३ रवखासे B ४ जल्पस्तु B ५ स्तपाB ६ क रादौCK