________________
४६० केशवकृतः कल्पद्रुकोशः श्रामेवं स्वयमात्मत्वे महत्युच्चैरथाल्पके । नीचैरथ स्यादैश्वर्ये तूपर्यध्यथ भूम्नि तु ॥२१॥ प्रायः शनैरद्रुते स्यात् स्मातीते स्तमदर्शने । सना नित्ये बहिर्बाह्येथास्ति सत्त्वे रुषोदिते ॥२२॥ उः स्यादुं तु परिप्रश्ने तर्के हुं स्यान्नमो नतौ । उषा रात्रौ तदन्ते स्यादथाप्यनुनये त्वपि ॥२३॥ अथ स्याद्दुष्टु निन्दायां सुष्टु चापि प्रसने । सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ॥२४॥ परुत्परायैषमोब्दे पूर्वे पूर्वतरे यति । अद्याचाहन्यथ पूर्वेह्नीत्यादौ पूर्वोत्तरापरात् ॥२५॥ तथाधरा'न्यान्यतरेतरात्पूर्वेयुरादयः । अपरेधुश्चोभयेयुः परे त्वह्नि परेऽद्यवि ॥२६॥ ह्योतीतेनागतेह्नि श्वः परश्वस्तु परेहनि । तदा तदानीं युगपदेकदा सर्वदा सदा ॥२७॥ एतर्हि संप्रतीदानीमधुनापि च सांप्रतम् । दिग्देशकाले पूर्वादौ प्रागुदप्रत्यगादयः ॥२८॥ कल्पद्रौ केशवकृते स्कन्धे तार्तीयके शुभे । अव्ययानां प्रकाण्डोऽयं सम्यक् सिद्धिमुपागतः॥२६॥
१ बोन्यतरेCK २ संपूर्तिमागत:B