________________
केशवकृतः कल्पद्रुकोशः ४५६ कव्यदाने पितणां च स्वधा स्यादप्यथो मनाक् । इषदीषत् किञ्चिदपि स्वल्पेथो 'कद्यथा तथा ॥१२॥
वैवं साम्येय प्रसह्य हठादथ भवान्तरे । प्रेत्यामुत्राथ मध्यार्थेऽप्यन्तरा चान्तरेण च ॥१३।। अप्यन्तरे च दिष्ट्या स्यादानन्द उपजोषकम् । स्थाने युक्तं साम्प्रतं स्यात्सद्यः सपदि तत्क्षणे ॥१४॥ हठे प्रसह्य प्रसभं स्यादभीदणमनारतम् । शश्वच्चाथाप्य मा नो ना मा स्मालं न हि वारणे ॥१५॥ पक्षान्तरे तु यदि चेदद्धा तत्त्वेञ्जसापि च । प्राकाश्य प्रादुराविः स्याद्विरोधोक्तौ ननु स्मृतम् ॥१६॥ अङ्गीकारे तु परमं प्रमाणं वाढमेव च । अवश्यं परितो विष्वक् सर्वतोऽपि समन्ततः ॥१७॥ अकामानुमतौ काम मसूयोपगमेऽस्तु च । निःसमं दुःषमं गर्ने कञ्चित्कामप्रवेदने ॥१८॥ मृषा मिथ्या च वितथे यथास्वं तु यथायथम् । "यथातथमथापि स्यात्प्रागतीतार्थवाचकम् ॥१६॥ संवद्वर्षेऽवरे त्वर्वागेवं चैवावधारणे । अथावश्यं निश्चित स्यान्नूनं निरपि चैव ते ॥२०॥
, वद्यथाB २ वैवCK ३ उपलोषकेCK ४ महिB ५ मसूयापगमेCK ६ यथार्थे CK ७ यथा तथा तथापिOK ८ संवद्वर्षे वर्षे (र्षC) वरे त्वांगेवावधा
रयोCK चेष्यतेB