________________
४५८ केशवकृतः कल्पद्रुकोशः तरसा सपदि क्षिप्रं 'त्वह्नाय झटिति द्रुतम् । तूर्णं द्रागञ्जसा मनु साक् शीघ्रं लघु चित् चन ॥३॥ असाकल्ये समं सत्रा साकं सार्द्ध सहार्थकम् । स्यात्प्राध्वमानुकूल्येथ व्यर्थार्थे तु मुधा वृथा ॥४॥ यत्तद्यतस्ततो हेतौ बलवत्सुष्टु किं पुनः । इवाति सु स्युराधिक्ये कदाचिज्जातु जातुचित् ॥५॥ उताहो कि किमूताहो विकल्पे किमुतापि च । मिताक्षरग्रन्थजाते तु हि च स्म ह वै किमीं ॥६॥ "इच्चापि पादपूत्यै स्युर्विना सांकेतिकात्पुनः । अमिताक्षरजाते च वावोह यदपि क्वचित् ॥७॥ वाक्यस्य पूरणार्थास्ते पूजायामति सु द्वयम् । मौने तूष्णीं च तूष्णीकं सप्तम्यर्थे दिवाव्ययम् ॥८॥ दिवसार्थोऽपि तद्वत्स्यान्नक्तं दोषा तथैव च । राव्यर्थवाचकं चाथ समया निकषा हिरुक् ॥६॥ सामीप्येऽथान्तरे साचि तिर्यगर्थे विवादिते । सहसाथाङ्ग हे है भोः प्याट पाडथ पुरोग्रतः ॥१०॥ पुरस्तात्पुरतोऽथ स्यात् औषड् वौषड् वषट् पुनः । देवताभ्यो हविर्दाने स्वाहापि स्यादथ स्वधा ॥११॥ १ स्वहायेB २ मंचुB ३ किमुताहोCK ४ इश्वापिB ५ पादपूत्यौB
६ वाघCK ७ ऽविचारित B = पुरुतोB