________________
केशवकृतः कल्पद्रुकोशः ४५७ प्रियोन्नतिरुलूती स्यात्पुत्रस्तु सुमुखोऽथ च । इन्दिरा चञ्चलार्था स्यान्मा रमा कमलापि च ॥५२॥ 'पद्मार्थगृहपर्याया हरिपर्यायतः प्रिया । भृगुक्षीराब्धिपर्यायपुत्री नारायणीति च ॥५३॥ कंदर्पलोकपर्यायमात्र पद्मलाञ्छना । लक्ष्मीवृषाकपायी श्रीमङ्गला मङ्गलार्थका ॥५४॥ बिल्वद्रुगृहपर्याया "करीषिण्यपि पिल्पिला । अश्वार्थान्मातृपर्याया पिङ्गला पद्ममालिनी ॥५५।। (इति 'युस्थानदेवमणिप्रकाण्डः पञ्चविंशः) कल्पद्रौ केशवकृते स्कन्धे तार्तीयसंज्ञिते । यज्ञादिमः प्रकाण्डोऽयं द्वितीयः सिद्धिमागतः ॥५६॥
-
-
द्वितीयादिविभक्त्येकवचनप्रतिरूपकम् । चिराख्यं चिररात्राख्यं चिरार्थप्रतिपादकम् ॥१॥ पुनः पुनः पुनरपि मुहुरेवं मुहुर्मुहुः । शश्वच्छाश्वदभीक्ष्णं तु वारंवारार्थवाचकम् ॥२॥
१ पमाघB २ लालनाB ३ श्रीमङ्गलाCK ५ करीषिणी पिलिप्पिलाB ५ गुस्थानदेवप्रकाण्ड:CK ६ स्वर्गस्कन्धे तृतीयकेB • तृतीय इति स्यात् । सम्यक संसिदिमागतःB ८ तथा शश्वB