________________
४४८ केशवकृतः कल्पद्रुकोशः क्लीबे स्तोत्रं चार्थवादः सा तु मिथ्याविकत्थनम् । जनप्रवादः कौलीनं वगानं वचनीयता ॥१॥ स्यादवर्ण उपक्रोशो वादो निःपर्यवात्परः । गर्हणा धिक्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥८२॥ आक्रोशाभीषडाक्षेपाः शापः साक्षारणा रते । विरुद्धशंसनं गालिराशीमङ्गलशंसने ॥३॥ श्लोकः पुंसि यशः लोबे अभिख्या स्या समज्ञया । यशः क्लीबे स्त्रियां कीर्तिः समाख्याता समाज्ञया ॥४॥ समाख्या कीर्तनापि स्यात्समाज्यापि समज्यया । त्रिपूत्तरे स्युग्भेिदा रुशती त्वशुभा च वाक् ॥८॥ उषती चाप्यथ पुनः कल्पा काल्पा शुभात्मिका । सैव ज्ञेया चर्चरी च वर्तरी च समे इमे ॥८६॥ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् । आपृच्छालापसंभाषोऽनुलापः स्यान्मुहुर्वचः ॥८७॥ अनर्थकं तु प्रलापो न ना तु परिदेवना। उल्लापः स्यात् काकुवागन्योक्तिः संलापसंकथे ॥८॥ समासत्रायवचनमपि स्या'दण्डकोऽस्त्रियाम् । विप्रलापो विरोधोक्तावपलापस्तु निह्नवः ॥८६॥
१ समाज्ञयाCk २ त्तण्डकोB