________________
केशवकृतः कल्पद्रुकोशः ४४७ चटु चाटु प्रियप्रायं प्रियसत्यं तु सूनृतम् । सत्यं तथ्यं समीचीनमृतं सत्यं यथातथम् ॥७२॥ यथास्थितं च सद्भूतेऽलीके तु वितथानृते। अथ क्लिष्टं संकुलं च परस्परपरा'हते ॥७३॥ श्रत्यर्थमधुरं सान्त्वं संगतं हृदयंगमम् । परुषं निष्ठुरं रूक्ष विक्रुष्टं क्लिष्टमस्फुटम् ॥७४॥ लुप्तवर्णपदं प्रस्तमवाच्यं स्यादनक्षरम् । अम्बूकृतं सनिष्ठीवं निरस्तं त्वरितोदिदम् ॥७॥ श्रामेडितं द्विस्त्रिरुक्तमबद्धं निरर्थकम् । सोल्लएठनं तु सोत्प्रासं मणितं रतकूजितम् ॥७६॥ सुरते कर्णमूले च व्यब्धदेशीयभाषया । दम्पत्योर्जल्पितं मन्दं मन्मनं तं विदुर्बुधाः ॥७७॥ चाटुपूर्वाणि सर्वाणि त्रिष्वमूनि च तद्वति । पृष्ठमांसादनं तद्यत्परोक्षे दोषकीर्तनम् ॥७॥ मिथ्याभियोगोभ्याख्यानं ग्राम्यमश्लीलमित्यपि । उच्चैर्युष्ट घोषणा स्त्री संगतं हृदयंगमम् ॥७॥ परुषं निष्ठुरं रूक्ष विक्रुष्टं चाप्यथ स्तुतिः । वर्णनेडा प्रशंसा स्यान्नुतिः श्लाघा स्तवो नवः ॥८॥
, हतम्B २ सोलुगठनमित्यादि सलापसंकथे इत्यन्तं पच्चविंशतिर निB पुस्तके नोपलभ्यन्ते ३ यत्तत्परोनेck