________________
४४२ केशवकृतः कल्पद्रुकोशः तारिणी विजयानन्ता शिवा लोकेश्वरात्मजा । प्रज्ञा पारमिता बुद्धमाता स्वाहा मनोरमा ॥२७॥ शंखिनी श्रीमहातारा लोचना च त्रिलोचना । सैषा चतुर्विधा वाणी परा 'पश्यन्तिका पुनः ॥२८॥ मध्यमा 'नाभिकण्ठे च मूर्द्धस्थाने स्थिताः क्रमात् । • गुप्तस्थानस्थितास्तिस्रश्चतुर्थी किल वैखरी ॥२६॥ देवादीनां मनुष्याणां वर्णव्यापारकारिका । व्याहारउक्तिर्लपितं भाषितं वचनं वचः ॥३०॥ तिङसुबन्तचयो वाक्यं क्रिया वा कारकान्विता । श्रुतिस्त्रयी स्त्रियां वेद अाम्नाय ऋषिरित्यपि ॥३१॥ निगमश्च पुनः क्लीबे छन्दो ब्रह्माथ बहवृचः। भृग्वेदः पुंस्यथ क्लीबे यजुः सामापि न द्वयोः ॥३२॥ खरपत्तनमुक्थं तहक् सामयजुषी त्रयी। तदुधृतिरथर्वास्यादथैषां चरणक्रमः ॥३३॥ एकविंशत्येकशतचतुःपञ्चेति ताः क्रमात् । शिक्षा ज्योतिर्निरुक्तं च कल्पो व्याकरणं तथा ॥३४॥ छन्दो नासा दृक् श्रुतिश्च हस्तौ वदनमित्यपि । पादौ श्रुतेस्तदर्थानि शाखाभेदः पुनश्च षण ॥३५॥
1 पश्यन्तिको B २ नाभिकण्ठौ च मूर्दा Ck ३ स्त्रियोCK