________________
×૪૦
केशवकृतः कल्पद्रुकोशः
।
सनकाद्या अपि च ते योगिनो बालरूपिणः । मारीचः कश्यपस्त्र्यतोऽथास्य पत्न्यस्त्रयोदश ॥ १० ॥ दितिश्च दितिश्चापि दनुः कालादनायुषा । सिंहिका च मुनिः क्रोधा वरिष्ठा सुरभिर्वा ॥ ११ ॥ कद्रश्च विनता चैता दाक्षायण्योऽथ तत्प्रजाः । दैत्या देवाः खगा नागा गावोऽश्वाद्याश्रनेकशः ॥१२॥ सोमदत्तश्च दुर्वासा 'श्रात्रेयाश्च ततः परः । बृहस्पत्यभ्युचयाद्या श्रङ्गिरस्तनया श्रथ ॥ १३ ॥ पौलस्त्यो विश्रवास्तस्य रावणाद्यास्त श्रासुराः । क्रतोर्यज्ञाश्च कर्माणि मृकण्डो भार्गवः कविः ॥ १४ ॥ वासिष्ठः शक्तिरथ च मनुः स्वयंभुवः सुतः । ब्रह्मणस्तस्य राज्यस्य कालं स्यात्तदनन्तरम् ॥१५॥ महिषी शतरूपास्य तद्भवाः 'सर्वमानवाः 1 'पलं दीर्घेः षष्टिवर्णैस्तावद्भिस्तैर्घटी मता ॥ १६ ॥ तावतीभिरहोरात्रं घटीभिर्मानुषं पुनः । तावद्भिस्तैस्तैस्तु षभिः संवत्सरस्ततः ॥१७॥ दश सप्त दश द्वे च ष्टौ चत्वारि पञ्च च । लक्षायुतानि चत्वारि तदेकस्थं चतुर्युगी ॥ १८ ॥
१ पात्रेयाश्चCK २ परेB ३ बृहस्पत्युचथ्याद्या B ४ मृकण्डो भार्गव: B ५ स्वायंभुवःCK ६ सर्वदेवताः B ७ पलदीधैः Ck = इतः पूर्वं किंचित्त्रुटितमिव प्रतिभाति