________________
प्रव
केशवकृतः कल्पद्रुकोशः ४३५ 'वदात उज्ज्वलः श्येतः रेश्यनः स्याच्छुभ्रमव्ययम् । अवदातः सितो गौरो विज्ञेयश्चार्जुनः पुनः ॥१६१॥ हरिणः पाण्डुरः पाण्डुः पाण्डरश्वाथ धूसरः । ईषत्पाण्डुः श्यामलस्तु कृष्णो नीलोऽसितोऽपिच॥१६॥ शितिः कालो मेचकोऽपि रामश्च मिश्रवर्णके । कपोताभः कपोतोऽथ पीतः पीतल इत्यपि ॥१६३॥ गौरो हरिद्रासदृशः सितरञ्जन इत्यपि । सितरूपस्तालकाभः पलाशो हरितो हरित् ॥१६४॥ लोहितो रोहितो रक्तः शोणः कोकनदच्छविः । मञ्जिष्ठो बालसंध्याभोऽव्यक्तरागोऽरुणोऽपि च ॥१६॥ श्यावस्तु कपिशश्वाथ श्वेतरक्तस्तु पाटलः । धूम्रस्तु धूमलः कृष्णलोहितः कपिशो हरिः ॥१६॥ बभ्रुः पिशङ्गः कपिलः कापिलः पीतलोहितः । कडारः कपिशः पिङ्गः कश्चित्रस्तु कर्बुरः ॥१६७॥ एतकल्माषशबलकिसैराश्चित्रलः पुनः।। गुणे शुक्लादिकाः पुंसि गुणिलिङ्गास्तु तद्वति ॥१६॥ कल्पद्रौ केशवकृते भुवःस्कन्धो द्वितीयकः । सत्रा नाट्यप्रकाण्डेन सफलः सिद्धिमागतः ॥१६॥
, उदात्तB२ श्वेतः ३ श्येतःOK ४ कठिणश्चाथ B