________________
४३४ केशवकृतः कल्पद्रुकोशः अथ मोहः पुनः क्लोबे स्यादज्ञानमपि स्त्रियाम् । अहंमतिरविद्याथ' नियमाश्रवसंश्रवाः ॥१५२॥ संविदागूः प्रतिज्ञानं समाधिस्तु प्रतिश्रवः । अङ्गीकारोऽभ्युपगमोप्यथमोक्षोऽपुनर्भवः ॥१५३॥ महानन्दोऽपवर्गः स्त्री निवृत्तिर्मुक्तिरित्यपि । सिद्धिः क्लीबे ब्रह्म शिवं श्रेयो निःश्रेयसामृते ॥१५४॥ निर्वाणमपि कैवल्यमक्षरं च महासुखम् । अथ स्युः पञ्च भूतानि व्योमेराग्न्यम्बुभूमयः ॥१५५॥ शब्दस्पर्शरूपरसगन्धा भूतगणाः क्रमात् । विषयाः स्युरमी ह्येषामिन्द्रियार्थश्च गोचरः ॥१५६॥ हृषीकं त्वत्तं "विषयस्रोतः करणमिन्द्रियम् । खं च श्रोत्रं त्वचा चक्षुर्जिह्वा नासा च पञ्चमी ॥१५७॥ पायपस्थं हस्तपादं वाक् चैव दशमी पुनः । ज्ञानेन्द्रियाणि श्रोत्रादि पञ्च पायवादिकानि च ।१५८। विसर्गानन्दग्रहणगतिवाक्यार्थकानि च । मन एकादशं बुद्धिरहंकारस्त्रयोदशः ॥१५॥ शुक्लः शुभ्रः शुचिः श्वेतो विशदः शितिपाण्डुरौ । अमलो धवलः शुक्रो बलतो रजतः पुनः ॥१६०॥
1B १ निवृत्तिरिति स्यात् ३ र्थाश्च गोचराःC ४ विषयंB विषयि प्रम.