________________
केशवकृतः कल्पद्रुकोशः ४२६ मोहावीतं च षडमी त्रिषु स्युरथ पुंस्यमी । शमः शान्तिः स्त्रियां पुंसि शमथोपशमावपि ॥१०७॥ स्तम्भः स्वेदश्च रोमाञ्चः स्वरभङ्गश्च वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका गुणाः ॥१०८॥ स्तम्भो जाड्य स्वेदधौ 'निदघः पुलकोऽस्त्रियाम् । कण्टकोञ्चश्च रोम्णः स्यादुद्गमो हर्ष इत्यपि ॥१०॥ उद्धर्षणोल्लुकसने रोमहर्षणमित्यपि। शिखरं पुंसि च क्लीबे पुलश्चाप्यथ कल्लता ॥११०॥ खरभङ्गोऽथ कम्पस्तु वेपथुः पुंसि न द्वयोः।। वैवयं कालिमा चाथ नेत्रार्थाचाम्बुरोदने ॥१११॥ असं चास्त्र्यलुबाष्पाश्रूण्यथ स्यात्प्रलयः पुमान् । नष्टचेतस्त्वमथ च स्त्रियां चिन्ता तु चिन्तिया ॥११२॥ श्राध्या हम्मो 'हम्मिरपि स्याज्जृम्भी जृम्भिरित्यथ । स्यात्तन्तिश्चिन्तनं क्लीबेऽथोत्साहोध्यवसायकः ॥११३॥ अतिशक्तियुते तत्र वीर्यं वीर्या ततः पुनः । "हेवाकोऽध्यवसायित्वं जृम्भस्तु त्रिषु जृम्भणम् ॥११४॥ 'आध्या ध्यानं पुंसि वा स्यादुत्कण्ट्रोत्कलिके स्त्रियौ। हृल्लेखा स्याद्रणरणस्तद्व' दायल्लकः पुनः ॥११५॥
, निदाघइति स्यात् २ ल्ललसनेB ३ चाथB ४ हस्मीB ५ हासिरपिB ६ रिपथOK७वीर्यात्ततः पुनःBE हिवाको प्राध्यानंCK.दायल्लकB