________________
केशवकृतः कल्पद्रुकोशः ४२७ अथ तत्रभवानत्रभवांश्च भगवानपि । प्रार्यमिश्रा'गौरविताः पूज्ये योज्या अमी त्रिषु ॥८६॥ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । रौद्रबीभत्सवात्सल्यशान्ता नाट्य रसा दश ॥६॥ एते ज्ञेया अथ पुनः शृङ्गारोस्न्युज्ज्वलः शुचिः । कैशिकः श्यामपर्यायः स च ज्ञेयश्चतुर्विधः ॥१॥ संयोगो विप्रयोगश्च मिश्रः सामान्य इत्यपि । स्थायिसात्त्विकसंचारिभावा अत्र त्रयस्त्रिधा ॥२॥ रतिहाँसश्च शोकश्च क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयश्चेति स्थायिभावाः क्रमादमी ॥३॥ रागानुरागौ द्वौ तुल्यौ रतिश्चानुरतिः समे। हसस्तु हासः शुकश्च घर्घरश्च स्त्रियां हसिः ॥१४॥ हास्यं षणथ तद्भेदास्तत्रादृष्टरद स्मितम् । चक्रौष्ठिका तु* ना हासः किंचिदृष्टरदाङ्कुरे ॥१५॥ किंचिच्छूते विहसितमट्टहासो महीयसि । अनुस्यूतेऽदृट्टहासोऽट्टाहासोतिहासकः ॥६६॥ अपहासोऽकारणजे हसनं स्फुरदोष्ठके । सोलासे ह्याच्छुरितकं क्लिष्टे तूदरपीडनम् ॥७॥
१ गौरचित्ताःOK २ लंCK ३ शुकश्च B ४ ननो हासःB