________________
४२६
केशवकृतः कल्पद्रुकोशः क्रोशध्वनिः कोशतालो वीक्षापन्नः सविस्मयः । स्वदोषाच्छादनं 'म्रक्षोऽस्त्रियां स्यान्मूलकारिका ॥८॥ ग्रामीणतोषकं नृत्यं वरमन्वीति कथ्यते । गणिकानुचरैरज्जुकेति वाच्या नृपेण च ॥१॥ राष्ट्रियो नृपतेः श्यालोऽनूढाभ्राता ह्यपण्डितः । वर्करः परिहासः स्यादुत्प्रासस्तूपहासगीः ।।८२॥ ध्वार्धापिकोत्साहिका च क्लीबे वर्धापनं हि तत् । नाट्योक्तौ महिषो मार्ष 'पार्यो विद्वांश्च भावुकः॥३॥ राजा भट्टारको देवः कुमारो भर्तृदारकः । भर्तृदारिका तत्सुता स्याज्ज्येष्ठा भग्न्यन्तिकापि च ॥८४ श्रातिका चान्तिकान्ताम्बा स्यादन्तिश्चाप्यतः पुनः । देवो देवी भृत्य जनैर्वाच्योऽयमृषिभिर्द्विजैः ॥५॥ वयस्य राजनिति वा स च वाच्यो विदूषकैः । कृताभिषेका महिषी देव्यश्वान्या नृपस्त्रियः ॥८६॥ भोगिनी त्वपरैरन्या चुल्लैगोस्वामिनीति सा । हण्डे हण्डा द्वयं नीचे हञ्जा हाच चेटिकाम् ॥७॥ प्रति प्रति सखीं चापि "हलाऽमून्यव्ययानि च । भर्तार्यपुत्रोथापि स्युर्भदन्ताः सौगतादयः ॥८॥
मंजुल भतुर २ शालोCK ३ स्वB व पिकोB ५ अयोCK ६ नीचB . मीचामिति स्यात् ७ हलेCK