________________
केशवकृतः कल्पद्रुकोशः ४१६ श्रीरागस्य भवन्त्येता वासन्त्यः स्युरतः पराः। श्रान्दोली कौशिकी चैव तथा प्रथममञ्जरी ॥१७॥ 'गुडेगिरी देवशाखा रामा स्यादथ भैरवी । विलाडली गुर्जरी च कर्णाटी चापि रक्तिका ॥१८॥ हंसाथ त्रिगुणा स्तम्भतीर्थी चाभीरिका पुनः । ककुभा च वराडी च सामेरी चाप्यमूरपि ॥१६॥ मतान्तरे मेघरागभार्याः स्युरथ चापराः । बंगाला मधुरा चैव कामोदा चोक्षसारिका ॥२०॥ देवगिरी देवपाला स्युरेताः पञ्चमाश्रयाः । मतान्तरेपि पुनस्तोटिकापि च मोटिका ॥२१॥ नदडंबी च मल्हारी सिंधु मल्हारिकाप्यथ । देवशाखा मालवश्रीर्द्धना श्रार्दीपकादयः ॥२२॥ स्वचतुर्जातिसंयुक्ता रागाङ्गानि भवन्त्यमी । बृहती च पुलंध्री च "सैरन्ध्री ललितादयः ॥२३॥ भाषान्तरामिधा भीमपलाशी प्रमुखा श्रथ । वैराटिका वृद्धहंसा तथा सौराष्ट्रिकादयः ॥२४॥ शोकप्रकाशकाश्चान्ये क्रियाङ्गेषु प्रकीर्तिताः । केदार कर्णी स्थानाख्या तथा मालवकादयः ॥२५॥
. . मुण्डागिरीB २ वेलावलीB ३ चोटसर्गकाB ४ देवगीरीB १ मल्लारिकाB ६ श्रीदीपB. सैन्धवीB ८ कद्यारस्थानाB