________________
४१८ केशवकृतः कल्पद्रुकोशः रमणी शोभिता नादा तथा सिमरिजा मता । नादानू कासिका चण्डा इत्येता एकविंशतिः ॥८॥ ताना एकोनपञ्चाशत्तन्नतेन्नकतुन्नकाः । विज्ञेयाः क्रमशः सर्वे सप्त सप्त स्वरे स्वरे ॥६॥ नादान्ता निष्कला गूढा सकला मधुरा पुनः । कामाङ्गा मदिरा श्यामा तारा चन्द्रानना शुभा ॥१०॥ असंपूर्णा वरा पूर्णा रेजिका वालिकापरा । प्रसन्नवदना वामा बाला मधुरता तथा ॥११॥ द्वाविंशतिस्तु श्रुतय एता ज्ञेयाः स्वरानुगाः । श्रुतिभिः कियतीभिश्च संयुक्तास्ते स्वराः क्रमात् ॥१२॥ चतुःश्रुतिस्त्रिश्रुतिश्च द्विश्रुतिश्च स्वरा मताः । श्रुतिभिर्मुर्छनाभिश्च ग्रामस्तानैश्च संहिताः ॥१३॥ समागताः स्वरास्तैस्तु रागा भाषादयः कृताः । श्रीरागश्च वसन्तश्च भैरवः पञ्चमोऽपि च ॥१४॥ मेघरागः षष्ठ इह ज्ञेयो नट्टनरायणः । षट षड भार्याः क्रमादेषामासां नामान्यनुक्रमात् ॥१५॥ गौडी कोलाहला चापि गान्धारी द्रविडी तथा । पञ्चमी देवगान्धारी षष्ठी देवलकौशिकी ॥१६॥
सिभरिताB २ काशिकाB ३ राजिकाB ४ स्वरा मता:B ५ शुचिB ६ स्वराः मात्B • मूर्त्सनाCk C भावाB & मालवB