________________
केशवकृतः कल्पद्रुकोशः ४१७ चेतः स्वान्तं मानसं च मनः क्लीबेऽन्तरिन्द्रियम् ॥ कल्पद्रौ केशवकृते 'भुवःस्कन्धे द्वितीयके । कालाभिधः प्रकाण्डोऽयं साङ्गः सिद्धिमुपागतः ॥१२॥
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमोऽपि च । धैवतश्च निषादश्च सप्त कण्ठादिजाः स्वराः ॥१॥ कण्ठो रस्तालुरसना नासाशीर्ष समुद्भवाः । "श्रास्यात् षड़जोऽपरे कण्ठादृषभो हृदधो भवः ॥२॥ नासिकोत्थश्च गान्धारो मध्यमो नाभिसंभवः । उरसः शिरसः कण्ठात्पञ्चमस्य च संभवः ॥३॥ धैवतोऽपि ललाटोत्थो निषादः सर्वसंधिजः । स्युर्मन्द्रमध्यताराख्या ग्रामाः स्थानस्थितिपदाः ॥३॥ त्रयः खरेषु प्रत्येकं स्युस्ते तेष्वपि मूर्च्छनाः । सप्तखरेषु नन्दत्सु स्वस्वस्थानस्थितेषु च ॥५॥ प्रत्येकमूर्छनैकैका ग्रामेष्वेषु प्रजायते । बोधालला समाधानी पूरणी चापराजिता ॥६॥ विगलिप्ता संयमिनी मृद्वी च भ्रामिताक्षरा । द्राविता मङ्गला रामा 'सुखकृजयशेखरा ॥७॥
१ भूमिस्कन्धेCK २ रुतालु इति सर्वत्र पाठः ३ समुद्भवःCk ४ तस्मातOK दयोद्भवःB ६ मूर्ल्सनाःCK ७ लताB८ इति ताCK . सुरक्षा जया