________________
४२० केशवकृतः कल्पद्रुकोशः कर्णाटबंगालमुखाः सर्वे गौडा उपाङ्गकाः। ज्ञेया रागेषु रागाङ्गाः क्रियाङ्गोपाङ्गकावपि ॥२६॥ तथा भाषासु' भाषाङ्गास्तेपि स्युः स्वस्वदेशजाः । समाश्चतुर्विधा देश्यशुद्धगन्धालि छाइलाः ॥२७॥ 'नुडवः खाडवः पूर्णोऽपूर्णश्चेत्यथ च ध्रुवाः । मठश्च प्रतिमंदृश्च तृतीयस्त्वपि सारकः ॥२८॥ "अडुतालस्ततो रास एकताली क्रमादिमे । जयन्तः शेखरोत्साहौ तद्वन्मधुरनिर्मलौ ॥२६॥ 'कुतलः कमलश्वारो नन्दनश्चन्द्रमाः खरः । कामदो विजयश्चैव कन्दर्पजयमङ्गलौ ॥३०॥ तिलको ललितश्वामी ध्रुवाः स्युरिह षोडश । उद्गाहे स्यात्पद' द्वन्द्वं मध्ये कार्य पदद्वयम् ॥३१॥ "प्राभोगे पदयुग्ग स्यात् खण्डानीत्थं ध्रुवस्य च । षट्पदस्तूत्तमः प्रोक्तो मध्यमः पञ्चभिः परैः ॥३२॥ कनिष्ठश्च चतुर्भिः स्यादेवं ते त्रिविधा ध्रुवाः । उद्गाहे खण्डकद्वन्द्वंयुक्तिद्वयविनिर्मितम् ॥३३॥ अन्यानि तु पदानि स्युः सर्वाणि नियमादृते । एकादशाक्षरा खण्डादेकैकाक्षरवद्धितः ॥३४॥
भावासु २ छादलाःB ३ औडवःB ४ तुB ५ प्रतिमंहश्चB ६ भिसारक: B • अजतालB ८ जयन्तशेखरोत्साहाविति स्यात् ६ कुन्तलःB १० च्छन्दCK "भोगेB १२ स्वनाहीत्थं १३ पक्ति B १४ धावदेकै B