________________
केशवकृतः कल्पद्रुकोशः ४१५ जहानकः समसुप्तिः संहारो युगकल्पयोः । दैनंदिनो लोकशेषः परान्तः सर्वनाशनः ॥५४॥ 'दैनन्दिनः प्राकृतश्च स च स्यादद्विविधोऽथ च । किल्विषं कल्मषं किण्वं कल्कः पङ्कश्चन स्त्रियाम् ॥५॥ पुंसि पाप्माथ सुकृतं श्रेयः पुण्यं वृषः पुमान् । क्लीबे धर्म च धर्मोऽस्त्री मुदा मुच्च स्त्रियामुभे ॥८६॥ मोदो मोदः समाप्रेभ्यो मदः संमद इत्यपि । नन्द्यानन्दथुरानन्दिनन्दिरानन्द एव च ॥८७॥ . क्लीबाव्ययं तु के जोषमुपजोषमथो सुखम् । कमव्ययं च खं शर्म सौख्यं श्वःश्रेयसं पुनः ॥८॥ शातं सातमथो भद्रं भगं मद्रं च भावुकम् । भविकं मङ्गलं वा ना भव्यं द्रव्यं शिवं शुभम् ॥८६॥ शस्तं प्रशस्तं कुशल कुषलं क्षेममस्त्रियाम् । श्रेयः श्वःश्रेयसं रिष्ट निःश्रेयसमरिष्टवत् ॥१०॥ शमव्ययं भवः पुंसि द्रव्ये पापादिकं त्रिषु । काले शुभोत्तरे तु स्यात् स्त्रियामायतिरित्यपि ॥१॥ तज्जं फलमुदा ना क्लीबे सांदृष्टिकं हि तत् । तात्कालिकं तदात्वं स्यादयः शुभावहो विधिः ॥१२॥
१ दैनन्दिनः प्राकृतश्चेति केवलं २ ोल्कःCK ३ नाB४ धर्मश्चCK ५ भगCK ६ कुषलमितिB पुस्तके नास्ति ।