________________
४१२ केशवकृतः कल्पद्रुकोशः फाल्गुनाडः फाल्गुनिकः फल्गुनः फाल्गुनोऽपि च । स्याच्चैत्रावरजो मोहनिकोथ स्यान्मधुः पुमान् ॥८॥ चैत्रश्च चैत्रिकोऽथ द्वौ वैशाखे राधमाधवी । 'उत्सरः स्यादथ ज्येष्ठे ज्येष्ठश्च खरकोमलः ॥५६॥ आषाढपूर्वजो ज्येष्ठामूलीयः शुक्रमस्त्रियाम् । श्रावणानुज श्राषाढ श्राशाढोऽषाढ इत्यपि ॥६॥ शुचिर्नभस्तु नभसो नभाः श्रावणिकश्च सः । भाद्रो भाद्रपदः प्रौष्ठपदोऽपि च नभस्यकः ॥६१॥ अथाश्वयुक् चाश्वयुज अाश्विनेप्यथ कौमुदः । इष ऊर्जः कार्तिकिको बाहुलः कार्तिकः सरी ॥२॥ अधिमासोंहस्पतिः स्याद्वात्रिंशदिनमालकैः । दिनैः षोडशभिर्यानैश्चतुर्नाडीसमन्वितैः ॥६३॥ प्रवृत्तिरस्य प्रायेण क्वचिन्यूनाधिकैरपि । सोऽसंक्रान्तो द्विसंक्रान्तः कालेन बहुना स च ॥६४॥ जायते सक्षयस्तौ द्वौ गर्हितो शुभकर्मणि । यत्र क्षयो भवेन्मासस्तत्र द्वावधिमासको ॥६५॥ मासत्रये कार्तिकादौ क्षयो नान्येषु माःसु च । द्वाभ्यां सौरादिमासाभ्यामृतुः समयवाचकः ॥६६॥
। उत्सूरःB २ सयाह्वो द्वौल