________________
केशवकृतः कल्पद्रुकोशः ४११ कुहुः कुहूश्च गुगुश्च गुरेनष्टाब्जमण्डला । सिनीवाल्यथ दीपाली यक्षनिड्वलिपर्व च ॥४६॥ स्यादस्त्रियामहोरात्रमथ नक्तंदिवं पुनः । नक्तं दिवं चाहर्दिवं नैरन्तर्येऽव्ययं पुनः ॥५०॥ निमेषनिमिषा तुल्यौ व्यापारे नेत्रपक्ष्मणोः । अष्टादश निमेषास्तु काष्ठास्त्रिंशत्तु ताः कलाः ॥५१॥ तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तों द्वादशापि च । ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च ॥५२॥ स च स्याद्विविधः शुक्लकृष्णपर्यायभेदभाक् । पितृणां दिनरात्र्योश्च पर्यायौ तावनुक्रमात् ॥५३॥ मासस्तु दिनमालोमा वर्षात्कोश इत्यपि । अंशः श्रामश्चतुर्द्धासः सावनस्तु दिनै गैः ॥५४॥ चान्द्रः स्यात्पूर्णिमाऽमान्तः सौरस्तु रविसंक्रमात् । श्रासक्रान्त्यथ सर्वक्षभोगादिन्दोः स भोद्भवः ॥५५॥ मार्गशीर्षो मार्गशिरो वर्षाद्यः स्यात्सहाः सहः ।
आग्रहायणिको मार्गः स च स्यादाग्रहायणः ॥५६॥ तिष्यश्चापि च पुष्योऽपि पौषस्तैषः सहस्यवत् । अस्त्री माघे तपाश्चापि तपस्यस्तपसस्तपः ॥५७॥
१ ईष्टाब्जेति पाठः स्यात् २ मार्वर नावB