________________
४१० केशवकृतः कल्पद्रुकोशः अर्द्धरात्रो निशीथश्च 'शिवावसर इत्यपि । निःसंपातो महानिट चाथोच्चन्द्रापररात्रको ॥४०॥ अपि पश्चिमरानोऽथ श्वनिशं श्वनिशा च सा । यस्यां भत्ता निशि श्वानो भूतःकृष्णचतुर्दशी ॥४१॥ भूतेष्टाचाथ तद्भूत पञ्चदश्योर्यदन्तरम् । पर्वमूलं च प्रतिपत्पञ्चदश्योर्यदन्तरम् ॥४२॥ स पर्वसंधिरथ च पूर्णमासी तु पूर्णिमा । पूर्णमा पौर्णमासी च कलाहीने विधौ च सा ॥४३॥ विज्ञेयानुमतिस्तत्र पूर्णे राका निशाकरे । सरस्वती शारदी तु द्यूतपर्यायपूर्णिमा ॥४॥ शक्रोत्सवो ध्वजोत्थानं क्लीवे कोजागरः पुमान् । स्यादस्त्री कौमुदीचारः शरत्पर्वाथ होलिका ॥४५॥ होलाकापि च होली च वासन्ती कूदना स्त्रियः । मधूत्सवः कामिमहो रजःपर्यायतो महः ॥४६॥ पुष्ययुक्ता पूर्णमासी मासे पौषी च सा पुनः । मृगशीर्षयुता मार्गशीर्षे स्यादाग्रहायणी ॥४७॥ अमावास्यामाऽ मावस्याऽमामासी चाप्यमावसी । सूर्येन्दुसंगमो दर्शस्तत्र नष्टेन्दुमण्डला ॥४॥
, सर्वाB २ शक्रोत्सवCk ३ मार्गशीयेवमायK ४ ऽमावस्वाB