________________
४०८ केशवकृतः कल्पद्रुकोशः विकालिका मानरन्ध्रात्ताम्रिकाप्यथ तद्वयम् । 'मह्नः पञ्चदशोंशोऽस्त्री मुहूर्त्तस्ते क्रमादथ ॥२२॥ श्राद्यो रौद्रोथ द्वितीयोऽहिः सितोथाज इत्यपि । मैत्रोथारभटश्चापि पितरः सारटोऽप्यथ ॥२३॥ सावित्रो वासवश्चाथ वैराजश्च जयन्तकः । प्राप्योथ विश्वो गान्धर्वो वेधास्तु कुतपोऽभिजित् ॥२४॥ विधिस्तु रौहिणो विन्दोथोबलश्च "विरेचनः । एकादशस्तु विजयः पुरुहूतोथ नैमृतः ॥२५॥ वह्निश्वाथ महेन्द्रस्तु रक्षश्वाथ जलेश्वरः। चतुर्दशः पञ्चदशो भटस्तु स्यात्तथा भगः ॥२६॥ स्यादेवं पञ्चदशधा दिवसः पञ्चधा पुनः । प्रातः संगवमध्याह्नाः पराह्नाः सायमित्यथ ॥२७॥ पूर्वाह्नः प्रहरः सार्दो मध्याह्नस्तु तदुत्तरः । प्रहरोऽथापराह्नस्तु घटिकानां चतुष्टयम् ॥२८॥ सायाह्नः प्रहरश्चैवं चतुर्दाथ त्रिधा पुनः । पूर्वाह्नश्चापि मध्याह्नोऽपराह्नश्चेत्यथ द्विधा ॥२६॥ पूर्वाह्न श्वापराह्नश्च रात्रेस्तावन्त एव हि । आयो रौद्राथ गन्धर्वोऽजैकपादय भास्करः ॥३०॥ १ अहः पञ्चB २ दिः सितोप्यजB ३ ऽपि चB ४ विरोचनःB ५ श्वायंB ६ ऽप्यपराहोप्यथ द्विधा B ७ श्च पराह ८ तुCk & गान्धवों B