________________
केशवकृतः कल्पद्रुकोशः ४०७ तैतलं गरं वणिजं भद्रा विष्टिरुभे स्त्रियो । पञ्चम्यास्तु ववादि स्युर्यावत् कृष्णचतुर्दशी ॥१३॥ तस्याः परेढे शकुनिः पूर्वेढे चतुरंह्निकम् । अमोत्तरार्द्ध नागाख्यममून्येकादशैव हि ॥१४॥ करणानीति तिथयश्चतुरङ्गाः प्रगेव्ययम् । प्रातश्च काल्यं कल्यं षण दिवसार्थान्मुखार्थकम् ॥१५॥ व्युष्टं विभातं प्रत्यूषः स्त्रियां 'प्रत्युषमित्यपि । गोसर्गश्चाथ मध्याह्रो दिनार्थान्मध्यमित्यपि ॥१६॥ मध्यं दिनमथोत्सूरोऽपराह्नः पुनपुंसकम् । दिवसार्थावसानस्य पर्यायं सायमव्ययम् ॥१७॥ सायोऽपि स्यास्त्रियां संध्या पितृपर्यायसूर्समा । निण्मुखं च प्रदोषः स्यात्संधा संधिश्च पुंस्ययम् ॥१८॥ संध्यानां त्रितये चापि वैणवं च त्रिसंध्यकम् । पुंसि त्रिसंधिश्चाथ स्याच्चतुझं प्रहरावधि ॥१६॥ श्रासार्द्धयामं सप्तम्यां त्रयोदश्यां ततः पुनः । श्रायामयुगमेवं स्यात् प्रदोषोऽध्यायविनकृत् ॥२०॥ षष्टिदीर्घाक्षरोच्चारा मेरुका घटिका घटी । नाडी च नाडिका यामनाडी स्याद्यामघोषिणी ॥२१॥
1 तैतुलं B २ शुक्लB ३ दिवसार्थोन्मुखार्थकम् Ck lB ४ प्रत्यूषोऽस्त्रियामिति स्यात् ५ प्रत्युषसीत्यपिB-सित्यपिk