________________
४०६ केशवकृतः कल्पद्रुकोशः रव्याद्यास्ताः 'पञ्चदश स्युरथ प्रतिपत् स्त्रियाम् । पक्षतिमासपक्षाद्याग्नेयी वा ब्राह्मणोपरा ॥४॥ गिरिजा गणपः सर्पाः स्कन्दः सूर्यः शिवः शिवा । यमो विष्णुईरः कामः शर्वश्चन्द्रः पितामहाः ॥५॥ पूर्णिमामेति गदिते दिवसाः स्युश्चतुर्विधाः । घटीषष्टिमितार्कस्य राशिभोगस्य चापि यः ॥६॥ त्रिंशांशस्तिथ्यवच्छन्नो यावदृशं च सावनः । सौरो दैवस्तथैवार्तश्चाथ योगाः क्रमादमी ॥७॥ विष्कम्भः प्रीतिरायुष्मान्सौभाग्यश्चापि शोभनः । अतिगण्डः सुकर्मा च धृतिः शुलं ततः पुनः ॥८॥ गण्डो वृद्धिर्धवश्चापि व्याघातश्चापि हर्षणः । वज्रं सिद्धिर्व्यतीपातो वरीयान्परिघः शिवः ॥६॥ सिद्धः साध्यः शुभः शुक्लो ब्रह्मेन्द्रश्चापि वैधृतिः । तत्रातिगओ गोऽपि द्वितीयश्चाष्टमः स्त्रियाम् ॥१०॥ एकादशः षोडशान्त्यावस्त्रियां नवमाऽपि च । . तद्वत्पञ्चदशोन्ये नोगाः स्युः करणानि च ॥११॥ शुक्लप्रतिपदः पूर्वार्धात्यार्द्धस्य प्रभेदतः। किंस्तुघ्न च ववं चापि बालवं कौलवं च षण ॥१२॥
, पञ्चदशाय च प्रतिपदसियाम् B २ ऽपि च B ३ सिद्धिःB