________________
केशवकृतः कल्पद्रुकोशः
स्यादष्टमूर्त्तिपर्याय एकलिङ्गं च न द्वयोः । कपर्दोऽस्य जटाजूटोऽस्त्रियां खट्वाङ्ग इत्यपि ॥१०१॥ शूलोऽस्त्रियां पिनाकोऽपि त्रिशूलं त्रिशिखं च षण् । जगावं चाजगवमजकावं तदिष्यते ॥ १०२॥ तदेवाजकवं प्रेतमञ्जरी स्त्री त्रिशूलकम् । शवपांशुलकं 'चाथ कावं गावं कवं गवम् ॥१०३॥ श्राद्धनुः स्यादप्येवं पिनाकोऽस्त्री ततोप्यथ । प्रमथाः स्युः पारिषदाः पार्षदाः स्युर्गणाश्च ते ॥ १०४॥ ब्राह्मी माहेश्वरी चैन्द्रा कौमारी वैष्णवी तथा । वाराही चण्डी चामुण्डा मातरोष्टावतः पराः ॥ १०५ ॥ विभूतिभूतिरैश्वर्यमणिमा महिमा पुनः ।
गरिमा लघिमा प्राप्तिः प्राकाम्यं चेशिताष्टधा ॥ १०६ ॥ भृङ्गिरीटिभृङ्गिरिटिभृङ्गी 'नाड्यस्थिविग्रहः । भृङ्गिरीटः शलेोपि स्याद्गणानामग्रणीश्च सः ॥१०७॥ वृषश्चापि शलो दक्षो महाभैरव भैरवैा । महाकालः पुनर्वाण लूनबाहु वृषाणकः ॥१०८॥ वीरभद्रस्तु हीराजो हेलकस्तु कृतालकः । अथ चण्डे । महाचण्डः कुशाण्डी कङ्कणप्रियः ॥ १०६ ॥
१ चाग्र्यं B २ पराCk ३ नाव्यस्थिB ४ कौरवCk ५ र्वषाणकः CK
३६१