________________
केशवकृतः कल्पद्रुकोशः ३८६ मृत्युंजयः कृत्तिवासा भालाल्लिाञ्छनार्थकः । भालदृग्गोपतिहीरः पिङ्ग'दृग्ववढोऽव्ययः ॥३॥ पिनाकी च कटाटको जटाटीनो महानटः । अद्रिधन्वा कपर्युग्रस्तमोहा नन्दिवर्धनः ॥४॥ केदारश्चन्दिलो भीमो भैरवो गजदैत्यभित् । शितिकण्ठो गुडाकेशः श्रीकण्ठः पांशुचन्दनः ॥८॥ कटयूमिहिराणः स्याच्छिपिविष्टः कपालभृत् । वामदेवो जगद्योनिरुड्डीशो धूर्जटि हरः॥८६॥ महादेवः कङ्कटीकः कूटकृच्चाब्दवाहनः । बहुरूपो देवमणिर्दिगम्बरवृषाकपी ॥७॥ कृशानुरेतःपर्यायाः स्मरपर्यायशासनः । हिरण्यवहन्योः पर्यायरेताः स्यान्नीललोहितः ॥८॥ भवो बुद्धः कृतकरोऽक्षत उत्सर्वतोमुखः । सुप्रसादो महाकालः स्थाणू रुद्रश्च भौतिकः ॥८६॥ कालंजर उमार्थेभ्यः पत्यर्थस्त्रिपुरान्तकः । नरास्थिमाल्यम्बरीषः कोपवाद्यपराजितः ।६०॥ गङ्गाधरोऽन्धकमखपर्यायरिपुवाचकः । वृषपर्यायकत्वर्थो वाहनार्थः खसर्वरः ॥१॥
१ दक् वयंढो २ श्चदिलोB ३ हंसःB।