________________
केशवकृतः कल्पद्रुकोशः ३८५ पूतक्रतायी च' शची स्यादिन्द्राणी शतावरी । पुलोमतनयार्थापि गन्धोली जयवाहिनी ॥२६॥ 'सहस्रपूर्णचन्द्राढ्या चारुरावा शचा शचिः। सचिः स्यात्तविषी चापि ताविषी तनयोस्य तु ॥३०॥ जयो अयन्तो जयतो यागसन्तान इत्यपि । देवसेना तस्य सुता जयन्ती च गुहप्रिया ॥३१॥ हयंकषो मातलिः स्यादिन्द्रपर्यायसारथिः । वृषणाश्वावस्य हरी हय उच्चैःश्रवा "बिलः ॥३२॥ अप्युच्चैः श्रवसः सस्यात्सप्तवक्तार्थ इत्यपि । मयूररोमसदृशाः सहस्रं हरयो हरेः ॥३३॥ 'विश्वौकसारा वृषभाऽमरा सुदर्शना न ना। श्रमरावत्यपि पुरी वनं तु मिश्रका स्त्रियाम् ॥३४॥ षणवृषण्वसु पारुष्यं नन्दनं कन्दसारकम् । ऐरावणोस्त्रियामरावतश्चापि सदामदः ॥३५॥ अभ्रपर्यायमातङ्गो भद्ररेणुः पुमानयम् । चतुर्दन्तो हस्तिमल्लः सूर्यपर्यायसोदरः ॥३६॥ स्यात्सुदामा श्वेतगजोऽभ्रमप्राणेश्वरार्थकः । द्वाःस्थस्तु देवनन्दी स्यात्सरो नन्दीसरोस्य च ॥३७॥
१ तुck २ सहस्रेत्यायB पुस्तके नास्ति ३ जयतो इनिCK पुस्तकयो स्ति * निल:B५ वस्वाकसारेत्यन्यत्र ६ पारुथंK