________________
केशवकृतः कल्पद्रुकोशः १८ प्राणो नासाग्रहृन्नाभि पादाङ्गुष्ठान्तगोचरः । अपानः पृष्ठपृष्ठान्तपार्श्वमन्या गतिस्ततः ॥११॥ समानः संधिहृन्नाभीपूदानो हृच्छिरोन्तरा ।। सर्वत्वग्वृत्तिको व्यानो नाग श्राकुञ्चनक्रियः ॥१२॥ प्रसारणक्रियः कूर्मो वल्गनार्थो धनंजयः। कृकरो धावने दक्षो न मुञ्चति मृतं वपुः ॥१३॥ वहः स्यात्प्रोत्संविपरापरिभ्यश्च परो वहः । एते वायुगणाः सप्त सप्तस्कन्धसमाश्रयाः ॥१४॥ अन्तरिक्षस्य तत्रस्थाः "पान्ति लोकांश्चतुर्विधान् । एव'मेकानपञ्चाशत्तरसी तु रयः स्यदः ॥१५॥ "जवोथ शीघ्रं त्वरि लघु क्लीबेऽरमव्ययम् । क्षिप्रं द्रुतं सत्वरं च चपलं तूर्णमाशु च ॥१६॥ सततेनारताश्रान्तसंतताविरतानिशम् । नित्यानवरताजस्रमव्ययं स्याद्भरः पुमान् ॥१७॥ अतेर्वलार्थमात्राः स्युर्भृशमुद्दाढनिर्भरे । ती कान्तनितान्तानि गाढवाढदृढानि च ।१८॥ क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां भेद्यगामि यत् । । इन्द्रो वृद्धश्रवा जिष्णुर्मेधार्थाद्वाहनार्थकः ॥१६॥
पादोङ्गुष्ठाजB २ गतिःस्मृतःB ३ वलमार्थोB ४ दत्तोB ५ यान्तिन ६ मेकोन ७ तरोB ८ अवःB