________________
१८० केशवकृतः कल्पद्रुकोशः 'मृदाकुः पञ्चलक्ष्मा च विश्वप्सा अजिरः पुनः । धारावलीरौ खश्वासः क्षिपणुश्च जगबलः ॥२॥ धूलिध्वजो बलदेवो महाबलमलिम्लुचौ । चञ्चलश्चपलः प्राणः संहर्षः प्रवहो वहः ॥३॥ पृषदश्वो गन्धवहो जगत्प्राणः समीरणः । सदागतिर्गन्धवाहो निःपावश्चाशुगोनिलः ॥४॥ शुचिर्नभखत्पवनपवमानप्रभञ्जनाः। वाहो मरुल्लोहघनः पश्चिमोत्तरदिकपतिः ॥५॥ श्वसनः श्वसिनो वातिश्चलश्चापि जगत् जगत् । महतः पृषताश्वोपि शरयुर्मेधकारकः ॥६॥ शीतलो जलकान्तारो मेघारिः स्मृमरोऽपि च । पृश्न्याकुलश्च वातूलो वातगुल्मः' प्रकम्पनः ॥७॥ अपि वातो महावायुर्निदाघसमयानिले । चारार्थाद्वायुपर्यायो झञ्झा' प्रावृडूभवेऽनिले ॥८॥ दाक्षिणात्यस्तु वासन्तः स चोक्तः मलयोत्तरः । श्राः सङ्गिनी च वाताली स्याद्वात्या वातमण्डली ॥९॥ वातोद्भवं तु वातूलं त्रिषु द्रव्ये गतेऽपरे । प्राणादयो दशाङ्गस्थास्तत्तत्स्थान समाश्रयाः ॥१०॥
- १ सप्तकुष्टःB २ धरावलीCB धराचलाK ३ धनःCK ४ भगन् B ५ गुरुयःB ६चराB७ संसाBEAB