________________
केशवकृतः कल्पद्रुकोशः
स्यादभुवन्युश्च धमनश्छिदिर: 'सुशिरोऽपि च । पिङ्गलश्चक्रवाडो देवताडेो वृषाकपिः ||१२||
३७८
मित्रो महावीरः पशुपर्यायतः पतिः । जलेन्धनाब्धिलक्ष्यग्नि 'रौर्वश्च वडवानलः ॥१३॥ संवर्त्तको वाडवः स्याद्वडवामुख इत्यपि । वनवह्निर्दवो दावः स्कन्धाग्निः स्थूलकाष्ठ धक् ॥१४॥ 'गस्तु करीषोत्थश्छागलोऽथ तुषेोद्भवे । कुकूलः 'कूक लोऽपि स्यान्मुर्मुरोथ चितागते ||१५| क्रव्यादोथ तृणोद्भूते स्यात्तरत्सम इत्यपि । ज्वलतः प्रोद्गतकणे स्यातां 'सुरकुष्करे ॥१६॥ त्रिषु स्फुलिङ्गो धूमस्तु वन्द्यर्थेभ्यो ध्वजार्थकः । भम्भो'म्भः सूर्मरुद्वाहः खतमालोऽस्त्रियां स्तरी ॥ १७ ॥ जीमूतवाही धूम्रो ना करमालः सुगन्धिनि । गर्वादिभव धूप धारणादीन्द्रियतर्पणः ॥ १८ ॥ धूमधाराधूमलता लंघूम धूमजे मले ।
१०
तृणादौ स्थिते तत्र धूमाङ्गोथ कला 'दश ॥ १६ ॥ धूम्रार्चि रूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी । सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ॥२०॥
१ सुशिरोCK २ पिङ्गलश्चक्रवाडोपिB ३ रौर्वश्चेत्यचरत्रयंKC पुस्तकयोर्मास्ति ४ टकB ५ हेगलCK हेगण B त्रिकाण्डादौ छगणः ६ कुकुलोB ७ सुष्करकुष्करौ B स्फुलिङ्गाभः B १० धूम्रान ११ दCK १२ रूक्ष्म १३ कव्ये B