________________
केशवकृतः कल्पद्रुकोशः ३७७ छागार्थवाहनार्थः स्याजातवेदा उषर्बुधः। । दूतो वैश्वानरो मन्त्री दीधितिः स्वर्णसप्तयोः ॥३॥ बर्हिः शुष्मा कृष्णवां स्वाहापतिविरोचनौ । श्राश्रयाशो बृहद्भानुः 'शिखावान्भूनिकेतनः ॥४॥ हिरण्यरेताः कपिलो नाचिकेतो विभावसुः। समित्पीथः शुचिपतिस्तमोवैर्याशुशुक्षणिः ॥५॥ क्लीबेऽपां पित्तमप्पित्तं ज्योतिर्हिहविश्च षण। अपि वायु सखानन्तः पाचनः पावनोनलः ॥६॥ बर्हिः शुष्म उदर्चिः स्याबहुलो हव्यवाहनः । अग्निहोत्रोग्निशुष्मा च बभ्रुः शुक्रश्च पावकः ॥७॥ श्राश्रयाशोप्याशयांशो हव्याशः शुचिराशिरः। शोचिष्केशः शमीगर्भो विश्वप्सश्च समन्तभुक् ॥८॥ पर्परीको रोहिदश्वो वसुर्वायु सखा हरः। उपर्भुबहलो हव्यः कृशानुर्जायविर्यसुः ॥६॥ धूमध्वजश्छागरथो हुतार्थादशनार्थकः ।। बलिदीप्तश्चोर्ध्वगतिर्दमूनाश्च विभावसुः ॥१०॥ 'धुः कः कर्कश्च दस्मश्च शोणो धिष्ण्यश्च भास्करः। तुत्थः श्रेष्ठश्च यज्ञश्च तमोहा हौमिरेधतुः ॥११॥ :शिखान्मुनि च केतवःB र बहि'B0. ३ सखोB४ सखाB KOR 19:CK STOK