________________
केशवकृतः कल्पद्रुकोशः ३७१ तताभिख्यः प्रतिसकृन्मितश्च संमितोऽ'मितः । मृतजित्सत्यजिन्मित्रः श्येनजित्पुरुजितः ॥१३॥ अतिमित्रः सुषेणश्च मृतधामा पराजितः । वरुणो विधृतो धाता महातेजा विधारणः ॥१४॥ ध्रुवो मिताशनः शक्तिः क्रीडनोन्यादृशो मुनिः । एताहगीहक् शरभो धातुरूपो विराड्गयः ॥१५॥ अनाधृष्यो वपुर्वामः कामो भीमः सहो द्युतिः । क्षिपो विमुक्त एकानपञ्चाशो गणआनिलः ॥१६॥ वहः स्यात्प्रोत्संविपरापरिभ्यश्च वहः परः। एषां तु सप्तसप्तानां सप्तकः सप्तको वहात् ॥१७॥ श्रात्मा ह्याशुमतो दक्षो "जुषः प्राणस्तथैव च । हविष्ठश्च गविष्ठश्च नवको भास्वरो गणः ॥१८॥ प्रद्युम्नो विद्युतः श्वेतो वज्रपक्षो बलाहकः । शतजिह्वो हिरण्याक्षः कुमुदो विजयाकृतिः ॥१६॥ सुगन्धिः पूर्णिमासश्च पौर्णमासो यमोपि च । वलाकश्च सुवीरश्च महाराजिकसंज्ञकः ॥२०॥ गणः पञ्चदशोथापि नरो नारायणस्ततः । हंसो नयश्च प्राणश्च मनोग्रहजगद्धितौ ॥२१॥
, मितःB २ धातुगीषोB ३ विराहुष:B विराहूयः ४ जुषमायB।