________________
केशवकृतः कल्पद्रुकोशः .. ३६१ अर्कबन्धुर्धर्मधातुर्जितारिः केवली वितः। महाश्रमणश्च पुनर्मुनीन्द्रोर्हन्समोऽपि च ॥७॥ मायादेवीसुतश्चक्री धरेयोपि च बाहुलः । क्षीणाष्टकर्मादेवाधिदेवः 'श्रोमो जिनेश्वरः ॥८॥ तीर्थंकरस्तीर्थकरस्तापी पारगतश्च सः । परमेष्ठा वीतरागः स्वयंभूः पुरुषोत्तमः ॥६॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः।। जिनप्रकाण्डः संपूर्णो जातः सप्तदशः शुभः ॥१०॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः। प्रकाण्डैः सप्तदशभिर्भूमिस्कन्ध उपस्थितः ॥११॥
सुपर्वाणो देवयवः शान्ता वृन्दारकाः सुराः । स्वप्नमृत्युजराव्याधिपर्यायपरिवर्जिताः ॥१॥ "सुबलाः पूजिता देवास्त्रिदशाश्च चिरायुषः । बर्हिःपर्यायवदनपर्याया भूभवश्च ते ॥२॥ स्वाहायज्ञसुधानां च पर्यायेभ्योऽशनार्थकाः । मृत्युपर्यायनपूर्वा दिविद्युनभसः सदाः ॥३॥
, प्राप्तेर श्रामोB २ कृते फलिते नामसत्फलैरिति केवलंB पुस्तके दश्यते ३ लुंवकैःB ४ वन्दारकाःB ५ सुरलाःB
४७