________________
केशवकृतः कल्पद्रुकोशः ३६१ संवर्तिका तु संवर्तिः संवर्ती नवपत्र्यपि। तत्कर्णिकामध्यगतबीजकोशो वराटकः ॥१५५॥ कल्पद्रौ केशवकृते फलिते नामसत्फलैः । त्रयोदशः प्रकाण्डोऽयमब्ध्यायः सिद्धिमागतः ॥१५६॥ समुद्रादिप्रकाण्डः (इतिपूरणप्रमुखकाण्डपूरणम्)
अधोभुवनपातालवलिसद्मार्थकानि तु। वडवामुखपर्यायं रसापर्यायतस्तलम् ॥१॥ नागपर्यायलाका स्यादधोऽव्ययमित्यपि । रोकं विरोकं छिद्रं च रन्ध्र श्वनं च पुंसि वा ॥२॥ खनं दरं च वा पुंसि सुषी सुषिरुभे स्त्रियौ । अतलं वितलं चैव सुतलं च तलातलम् ॥३॥ महारसाभ्यां च तलं पातालं स्युरमूनि षण । तत्र स्युस्त्रिषु सत्त्वेमी स्यात्क्लीबे तमसं तमः ॥४॥ अन्धकारोऽस्त्रियां ध्वान्तं तमित्रं तिमिरं पुनः। निशापर्यायचर्मार्थं भूच्छायं च रजोबलम् ॥५॥ दिकण्टको वियतिः खत्वग्वृत्रोऽप्यदर्शनः । निशापर्याय'रागार्थो दिनपर्यायकेसरः ॥६॥ i tra B
:
॥४
॥