________________
३६२ केशवकृतः कल्पद्रुकोशः खपर्यायपरागार्थो वियद्भूतिर्दिगम्बरः। क्लीबे दिनार्थादण्डार्थं नीलपङ्कार्थमित्यपि ॥७॥ अन्धं तमोन्धतमसमन्धातमसमित्यपि । क्षीणं तमोवतमसं विष्वक संतमसं च तत् ॥८॥ भुवि श्वभ्रे द्वयोर्गर्ताऽवटिः स्यादवटोऽवटु । कालेया दनुजा दैत्या ये चाप्यन्ये सुरद्विषः ॥६॥ सर्पा नागाश्च ते सर्वे सर्वपातालवासिनः । सुरपर्यायनज्पूर्वा दित्यपत्यार्थवाचकाः ॥१०॥ ते पूर्वदेवपर्याया 'इन्द्रपर्यायवैरिणः । कश्यपापत्यपर्यायाः पातालार्थान हार्थकाः ॥११॥ यज्ञपर्यायशत्र्वाः क्षण दृष्टिमुषोपि च । तुल्या एतैश्च कालेया दानवा वेदविद्विषः ॥१२॥ अवतास्तामसतपशीलधर्मार्थवैरिणः । श्रादिदेत्यो हिरण्याक्षो ज्येष्ठः कश्यपसूनुषु ॥३॥ दैत्यादिन्द्रपर्यायः पूर्वदेवार्थ इत्यपि । हिरण्यकशिपुर्दैत्यौ हिरण्याक्षानुजार्थकः ॥१४॥ कयाधूरस्य पत्नी स्यात्प्रहलादाद्याः सुताश्च ते । कायाधवश्व प्रहलादो हादः संहादसंज्ञकः ॥१५॥
१गतोB २ वरःBACK राB प्रभावोB