________________
३५२ केशवकृतः कल्पद्रुकोशः विसारो मत्सो' मत्स्योऽपि वैसारिणजलेशयौ। मछः शल्क्यथ तद्भदा एककण्टकमञ्जरी ॥७४॥ सहस्रदंष्ट्रः पाठीनोप्यवदालक' इत्यपि । महामत्स्यो रूप्यवर्णो दीर्घः स्यादथ लोहितः ॥७॥ कृष्णशल्की श्वेतकुतिस्तालाङ्गो मत्स्यराडपि । वृत्त वज्रोप्यथ पुनर्गर्गरः पीतवर्णकः ॥७६॥ पिच्छलाङ्गः पृष्ठरेखाबहलः सच शल्ककः । अथ भीरुः पृष्ठगलपुच्छेषु द्विद्विपक्षकः ॥७७॥ अशल्को वृत्ततुण्डोऽथ पालको वृत्तवक्त्रकः। नातिस्थूलो विशल्काङ्गः श्मश्रुलो दन्तवानपि ॥८॥ संध्ययोरात्रिशेषे च प्रचारी "चाश्ववर्वरः । कुक्षौ पृष्ठे च कण्टालोप्यथान्यश्छगलः पुनः ॥७॥ गले द्विकण्टकः श्वेतः पृष्ठेकण्टः सुविग्रहः । समानदीर्घवृत्तः स्यान्निःशल्कोप्यथ रोहितः ॥८॥ रक्तमत्स्यो लोहितः स्याद्रोहिः सालो गडो गलः । छालोथ नडजे मत्स्ये चिलिचीमश्चिलीचिमः ॥१॥ खलेहः खलिशश्चापि"नलमीनः खलेशयः। क्षीरजालोऽतिरक्ताङ्गो नातिदी| न चाल्पकः ॥२॥ । मत्स्योCk २ दालुकB ३ स्तालागोB ४ ववोB ५ पिछिB ६ शक्लकःK
वल्कक:B ७ चाथ BCC कण्ठः ६ गलोण्डजः १० खलहःB ११ तलCk