________________
केशवकृतः कल्पद्रुकोशः शिवपर्यायवासार्थः कैलासो हिमवद्धसः । क्रौञ्चः क्रोञ्चो गुहहतः पुंसि क्लीबे युगंधरम् ॥११॥ अपि किष्किन्ध किष्किन्ध्यौ वानराणां गिरौ द्वयम् । दक्षिणाचल प्राषाढो माल्यवान्मलयोऽस्त्रियाम् ॥१२॥ रौहिणश्चन्दगिरिविन्ध्यस्तु जलवालुकः । वेङ्कटादिः केसरी स्यात्सिंहः केशववल्लभः ॥१३॥ सह्याचलस्तु मूर्धाद्रिस्त्रिकूटस्त्रिककुच्च सः । रेवोद्भवे तूपविन्ध्यमेकलामरकण्टकाः ॥१४॥ सुवेलः स्यात्रिमुकुट इन्द्रकीलस्तु मन्दरः । उज्जयन्तो रैवतः स्यात्सुदारुः पारियात्रकः ॥१५॥ वारिपात्रो ऽथास्त्रियां स्याद्गन्धमादनमित्यपि । भृश्यमूको रिश्यमूको मूर्द्धन्यमध्यगान्तकाः ॥१६॥ लोकालोकश्चक्रवालश्चित्रकूटादयः परे । कूटोऽस्त्री शिखरं शृङ्ग प्रपातस्त्वतटो भृगुः ॥१७॥ मेखला मध्यभागोडेनितम्बः कटकोऽस्त्रियाम् । द्रोणी तु शैलयोः संधिः स्यात्प्रस्थः सानुरस्त्रियाम् ॥१८॥ पुमान्स्नुः स्यादथ गुहा दरी स्त्री कन्दरस्त्रिषु । दरिविलं' देवखातमखातं गह्वरी स्त्रियाम् ॥१६॥
1 सिंहरः केशवल्लभःOk २ पात्रकःB ३ तुगाCk । ४ विलेCK