________________
केशवकृतः कल्पद्रुकोशः ३३३ मत्तः कालोपि कामान्धो गन्धर्वश्चास्य तु प्रिया । कोकिला मधुरालापा कामगा वनभूषणा ॥१३८॥ अन्यपुष्टाप्येवमेवमुन्नेया श्रथ कीरके । शुको मेधातिथिर्म पाठकः प्रियदर्शनः ॥१३॥ मेधावी रक्तचञ्च्वर्थः श्रीमान्वाग्मी फलाशनः । नृपप्रियो राजशुकः शतपत्रश्चमर्यपि ॥१४०॥ काष्ठपर्णशुकास्ते स्युर्मुरुमध्याल्पविग्रहाः । रक्तकृष्णोत्तमाङ्गास्ते रक्तपीतादिचञ्चवः ॥१४॥ नीलपीतश्यामरक्तचित्रवर्णा अनेकशः । सारिका मधुरालापा दूती मेधाविनीति सा ॥१४२॥ गोराटी गोरिका मूली शरभी गोकिराटिका । हहोलिका' चित्रपादा चित्राङ्गी कलहप्रिया ॥१४३॥ पीतपादा वङ्गकुला हट्टली प्रियवादिनी । 'जीवंजीवस्तु रक्ताक्षश्चकोरो विषसूचकः ॥१४४॥ कौमुदीजीवनो जीवजीवकश्चन्द्रिकाशनः । कौमुदीजीवनोङ्गारभक्षोप्यथ च चातकः ॥१४५॥ घनारवश्च वापीहः सारङ्गो मेघजीवनः । वर्षप्रियस्त्रिशंखः स्यात्स्तोको बभ्रुहरीतकः ॥१४६॥
१ पश्यपिB। २ हृदो(हदो)लिकाB ३ चित्रातीB ४ हदलीB ५ जीवजीवCk